6-2-125 आदिः चिहणादीनाम् उत्तरपदात् उत्तरपदात् इः तत्पुरुषे नपुंसके कन्था अनोः
कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तो भवति। चिह॑णकन्थम्। मड॑रकन्थम्। मडुर इति केचित् पठन्ति। मडु॑रकन्थम्॥ चिहण। मडर। मड्डर। वैतुल। पटत्क। चैत्तालिकर्णः। चैत्तालिकर्णिः इत्यन्ये पठन्ति। कुक्कुट। चिक्कण। चित्कण इत्यपरे। पठन्ति। आदिरिति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम्॥
कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहमकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ॥