कन्था च

6-2-124 कन्था च उत्तरपदात् उत्तरपदात् इः तत्पुरुषे नपुंसके अनोः

Kashika

Up

index: 6.2.124 sutra: कन्था च


तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्दः उत्तरपदमाद्युदात्तं भवति। सौशमिकन्थम्। आह्वकन्थम्। चप्पकन्थम्। संज्ञायां कन्थोशीनरेषु 2.4.20 इति नपुंसकलिङ्गता। षष्ठीसमासा एते। नपुंसके इत्येव, दाक्षिकन्था।

Siddhanta Kaumudi

Up

index: 6.2.124 sutra: कन्था च


तत्पुरुषे नपुंसकलिङ्गे कन्था शब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्या ।

Padamanjari

Up

index: 6.2.124 sutra: कन्था च


शोभवनः शमो यस्य तस्यापत्यं सौशमिः । आङ्पूर्वात् ह्वयतेः आतश्चोपसर्गे इति कः चप सान्तवने औणादिकः पः बहुलवचनादिडभावः - चप्पः ॥ आदिश्चिहणादीनाम् ॥थ 6.2.125 ॥ चिनोतेः क्विप्, चित्, हन्तेः पचाद्यच्, हनः, चिहणम् - निपातनातलोपो णत्वं च । मल मल्ल धारणे, ताअभ्यां रप्रत्ययः, निपात्नाल्लस्य डत्वम् - मडरः, मद्दुरः । विगततुलस्येदं वैतुलम् । पटदिति कायति - पटत्कः । कै गै रै शब्दे । आतोऽनुपसर्गे कः । बिडमादेते बिडालः । ला आदाने सोपसर्गादप्यस्मादेव निपातनात्कः, तस्यापत्यं बैडालिः, तस्येव कर्णावस्य बैडालिकर्णः । अपहे तु इकारान्तं पठन्ति - बैडालिकणिरिति । कुक्कु रटतीति, कुक्कुटः, निपातनाद्रशब्दस्य लोपः, चिनोतेः क्विप् , चित्, कणतेरच्, कणः, चिता कणः, चिक्कणः, निपातनातकारस्।य ककारः । तकारमेवान्ये पठन्ति । चिहणादयश्चैते गौत्रनामधेयाति स्मर्यन्ते । आदिरिति वर्तमान इति । पूर्वं ह्यादिग्रहणमुतरपदाभिसम्बद्वमिह पूर्वपदानां चिहणादीनामाद्यौदातत्वमिष्यते, अतस्तदर्थं पुनरादिग्रहणं कृतम् ॥