तत्पुरुषे शालायां नपुंसके

6-2-123 तत्पुरुषे शालायां नपुंसके उत्तरपदात् उत्तरपदात् इः अनोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शालाशब्दान्ते तत्पुरुषे समासे नपुंसकलिङ्ग उत्तरपदमाद्युदात्तं भवति। ब्र्रा॒ह्म॒ण॒शाल॑म्। क्ष॒त्र्िाय॒शाल॑म्। <<विभाषा सेनासुराच्छायाशालानिशानाम्>> २.४.२५ इति नपुंसकलिङ्गता। तत्पुरुष इति किम्? दृ॒ढशा॑लं ब्राह्मणकुलम्। शालायामिति किम्? ब्रा॒ह्म॒ण॒से॒नम्। नपुंसक इति किम्? ब्रा॒ह्म॒ण॒शा॒ला॥

Siddhanta Kaumudi

Up

शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

दृढशालमिति । बहुव्रीहिरयम् । तत्र पूर्वपदप्रकृतिस्वर एव भवति, पूर्वपदं च निष्ठान्तत्वादन्तोदातम् । ननु चात्र लक्षणप्रतिपदोक्तपरिभाषयैव भविष्यति सत्यम्, उतरार्थं तत्पुरुषग्रहणमवश्यं कर्तव्यं तदिहैव क्रियते, परिभाषाया अनाश्रयणाय ॥