6-2-122 कंसमन्थशूर्पपाय्यकाण्डं द्विगौ उत्तरपदात् उत्तरपदात् इः अनोः
कंस मन्थ शूर्प पाय्य काण्ड इत्येतान्युत्तरपदानि द्विगौ समास आद्युदात्तानि भवन्ति। द्वि॒कंसः॑। त्र्िाकंसः॑। द्वि॒मन्थः॑। त्र्िामन्थः॑। द्वि॒शूर्पः॑। त्र्िाशूर्पः॑। द्वि॒पाय्यः॑। त्रि॒पाय्यः॑। द्वि॒काण्डः॑। त्रि॒काण्डः॑। द्विगाविति किम् ? प॒र॒म॒कं॒सः। उ॒त्त॒म॒कं॒सः॥
द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ॥
द्विकंस इति । द्वाभ्यां कंसाभ्यां क्रीत इति तद्धितार्थे समासः , कंसाट्टिठन् इति टिठन्, तस्य अध्यर्धपूर्व इति लुक् । द्विमन्थ इति । आर्हादगौपुच्छ इत्यादिना ठक्, शेषं पूर्ववत् । द्विशूर्पमिति । शूर्पादञन्यतरस्याम् । द्विपाय्यमिति । पाय्यसान्नाय्य इत्यादिना परिमाणे निपातितः । प्राग्वतेष्ठञ् । द्विकाण्डमिति । देव काण्डे प्रमाणमस्य प्रमाणे द्वयसच् इत्यादिना मात्रजादयः, तेषाम् प्रमाणे लो द्विगोर्नित्यम् इति लुक् ॥