6-2-121 कूलतीरतूलमूलशालाक्षसमम् अव्ययीभावे उत्तरपदात् उत्तरपदात् इः अनोः
कूल तीर तूल मूल शाला अक्ष सम इत्येतान्युत्तरपदानि। अव्ययीभावसमास आद्युदात्तानि भवन्ति। प॒रि॒कूल॑म्। उ॒प॒कूल॑म्। प॒रि॒तीर॑म्। उ॒प॒तीर॑म्। प॒रि॒तूल॑म्। उ॒प॒तूल॑म्। प॒रि॒मूल॑म्। उ॒प॒मूल॑म्। प॒रि॒शाल॑म्। उ॒प॒शाल॑म्। प॒र्यक्ष॑म्। उ॒पाक्ष॑म्। सु॒षम॑म्। वि॒षम॑म्। नि॒षम॑म्। दुः॒षम॑म्। तिष्ठद्गुप्रभृतिषु २.१.१७ एते पठ्यन्ते। कूलादिग्रहणं किम्? उ॒प॒कु॒म्भम्। अव्ययीभाव इति किम् ? प॒र॒मकू॑लम्। उ॒त्त॒मकू॑लम्। पर्यादिभ्यः६.२.३३ कूलादीनामाद्युदात्तत्वं विप्रतिषेधेन भवति। प॒रि॒कूल॑म्। उ॒प॒कूल॑म्॥
उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ॥
सुषममित्यादौ सुविनिर्दुर्भ्यः सुपिसूतिसमाः इति षत्वम्, तस्यासिद्धत्वात्समशब्द एवायम् । तिष्ठद्गुप्रभृतिष्वेते पठ।ल्न्त इति । तेनाव्ययीभावसंज्ञा । पर्यादिभ्य इत्यादि । परिप्रत्युपापा इत्यस्यावकाशो यत्र कूलादयौ न सन्ति - परित्रिगर्तमिति, कूलादीनामाद्यौदातस्यावकाशो यत्र पर्यादयो न भवन्ति - अवकूलम्, तातिकूलमिति पर्यादिभ्यः परेषु कूलादिषु विप्रतिषेधः ॥