6-2-120 वीरवीर्यौ च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सोः छन्दसि अनोः
वीर वीर्य इत्येतौ च शब्दौ सोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषय आद्युदात्तौ भवतः। सु॒वीर॑स्ते (ऋ० ४.१७.४)। सु॒वीर्य॑स्य॒ पत॑यः स्याम (तै०सं० १.७.१३.४)। वीर्यमिति यत्प्रत्ययान्तं तत्र <<यतोऽनावः>> ६.१.२१३ इत्याद्युदात्तत्वं न भवतीत्येतदेव वीर्यग्रहणं ज्ञापकम्। तत्र हि सति पूर्व्ेणैव सिद्धं स्यात्॥
सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः <{SK3701}> इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥
वीर विक्रान्तौ चुरादिः, ततः पचाद्यचि - वीरः, अचो यत् - वीर्यंम्, वीरेषु वा साधुरिति पारग्घितीयौ यत् । तत्रेत्यादि । कथं पुनरेतज्ज्ञापकम् इत्याह - तत्र हि सतीति । फिषितु बिल्वभक्ष्यवीर्याणि च्छन्दसि इति च्छन्दस्यन्तस्वरितत्वं भाषायां वाद्यौदातत्वं शब्दस्य स्थितम् ॥