6-2-119 आद्युदात्तं द्व्यच् छन्दसि बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सोः
यदाद्युदात्तं द्व्यच् उत्तरपदं बहुव्रीहौ समास सोरुत्तरं तदाद्युदात्तमेव भवति छन्दसि विषये। स्वश्वा॑स्त्वा सु॒रथा॑ मर्जयेम (तै०सं० १.२.१४.४)। नित्स्वरेणाश्वरथशब्दावाद्युदात्तौ। आद्युदात्तमिति किम्? या सु॑बा॒हुः स्व॑ङ्गु॒रिः (ऋ० २.३२.७)। बाहुशब्दः प्रत्ययस्वरेणान्तोदात्तः। द्व्यजिति किम्? सु॒गुर॑सत् सुहिर॒ण्यः (ऋ० १.१२५.२)। छन्दसीति किम्? स्व॒श्वः। <<नञ्सुभ्याम्>> ६.२.१७२ इत्यस्यायमपवादः॥
यदाय्दुयाद्तं द्व्यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । अधास्वश्वाः (अधा॒स्वश्वाः॑) । सुरँथा आतिथिग्वे (सु॒रँथा॑ आतिथि॒ग्वे) । नित्स्वरेणाश्वरथावाद्युदात्तौ । आद्युदात्तं किम् । या सुबाहुः (या सु॑बा॒हुः) । द्व्यच् किम् । सुगुरसत्सु हिरण्यः (सु॒गुर॑सत्सु हिर॒ण्यः) । हिरण्यशब्दस्त्र्यच् ॥
कुर्भ्रश्चेति वर्तमाने अर्जिद्दशिकम्यमिपशिबाधामृजिपसितुग्धुग्दीर्घहकाराश्च । बाधते येन परानिति बाहुः ॥