सदृशप्रतिरूपयोः सादृश्ये

6-2-11 सदृशप्रतिरूपयोः सादृश्ये प्रकृत्या पूर्वपदम् तत्पुरुषे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सदृश प्रतिरूप इत्येतयोरुत्तरपदयोः सादृश्यवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। पि॒तृस॑दृशः। मा॒तृस॑दृशः। पितृमातृशब्दावुणादिष्वन्तोदात्तौ निपातितौ। षष्ठीसमासार्थं च सदृशग्रहणमिह तदलुकि षष्ठ्याः प्रयोजयति — दा॒स्याःस॑दृशः, वृ॒ष॒ल्याःस॑दृश इति। अत्र दासीवृषलीशब्दयोरन्तोदात्तत्वाद् <<उदात्तयणो हल्पूर्वात्>> ६.१.१७४ इति विभक्ति रन्तोदात्ता। पि॒तृप्॑रतिरूपः। मा॒तृप्॑रतिरूपः। सादृश्य इति किम् ? प॒र॒म॒स॒दृ॒शः। उ॒त्त॒म॒स॒दृ॒शः। समासार्थोऽत्र पूज्यमानता, न सादृश्यम्॥

Siddhanta Kaumudi

Up

अनयोः पूर्वं प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सदृशाग्रहणमनर्थकम् तुतीयासमासवचनात्। सदृशशब्देन तुतीयासमास उच्यते - पूर्वसदृशसमोनार्थ इति, तत्र तुतीयापूर्व पदं प्रकृतिस्वरं भवतीत्येव सिद्धमत आह - षष्ठीसमासार्थं चेति। तुल्यार्थयोगे षष्ठ।ल्पि विधीयते, तत्र यदा तस्याः षष्ठयाः समासः क्रियते, तदापि यथा स्यादित्येवमर्थ सदृशग्रहणम्। ननु चानभिधानात्षष्ठीसमासो न भविष्यति त्रैशब्द्यं हि नः साध्यम् - मातुः सदृशः,मात्रा सदृशः मातृसदृश इति एतच्च विनापि षष्ठीसमासेन सिद्ध्यत्येव अत आह - इहेत्यादि। अलुकि सति रूपविशेषस्य विद्यमानत्वादवश्यकर्तव्यः षष्ठीसमासः, तदर्थं चेह सदृशग्रहणं कर्तव्यम् । यद्येवम्, तृतीयासमासे सदृशग्रहणम्, यथा - विद्या सदृशो विद्यासदृश इति। न ह्यत्र षष्ठ।ल्र्थोऽस्ति,किन्तु तृतीयार्थः, विद्यया हेतुना सदृश इत्यर्थः, अन्यो देवदतादिरत्र प्रतियोगी । अपर आह - तृतीयासमासोऽप्यलुकि प्रयजयति - मनसः संज्ञायां मनसासदृश इति। अत्रेत्यादि। दशि दशनस्पर्शनयोः दंशेष्टो न आ चेति टप्रत्ययः नकारस्य चाकारः टित्वान्ङीप्, यस्योतिलोपः, अनुदातस्य च यत्रोदातलोपः इति उदातत्वम् । वृषलशब्दाज्जातिलक्षणो एङीष् ॥