6-2-118 क्रत्वादयः च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सोः
क्रत्वादयः सोरुत्तरे बहुव्रीहौ समास आद्युदात्ता भवन्ति। सु॒क्रतुः॑(तै०सं० १.२.६.१)। सु॒दृशी॑कः (तै०सं०३.४.११.१)॥ क्रतु। दृशीक। प्रतीक। प्रतूर्ति। हव्य। भग। क्रत्वादिः॥
सोः परे आद्युदात्ताः स्युः । साम्राज्याय सुक्रतुः (साम्रा॒ज्याय सु॒क्रतुः॑) । सुप्रतीकः (सु॒प्रती॑कः) । सुहव्यः (सु॒हव्यः॑) । सुप्रतुर्तिनेहसम् (सु॒प्रतू॑र्तिने॒हस॑म्) ॥