सोर्मनसी अलोमोषसी

6-2-117 सोः मनसी अलोमोषसी बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सोरुत्तरं मनन्तमसन्तं च बहुव्रीहौ समास आद्युदात्तं भवति लोमोषसी वर्जयित्वा। सु॒कर्मा॑। सु॒धर्मा॑। सु॒प्रथि॑मा। असन्तम् — सु॒पयाः॑। सु॒यशाः॑. सु॒स्रोताः॑। सु॒स्रत्। सु॒ध्वत्। सोरिति किम्? कृ॒तक॑र्मा। कृ॒तय॑शाः। मनसी इति किम् ? सु॒रा॒जा। सु॒त॒क्षा। अलोमोषसी इति किम् ? सु॒लो॒मा। सू॒षाः। <<अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च०>> इत्यनर्थकयोरपि मनसोरिह ग्रहणम्। <<नञ्सुभ्याम्>> ६.२.१७२ इत्यस्यायमपवादः। कपि तु परत्वात् <<कपि पूर्वम्>> ६.२.१७३ इत्येतद् भवति। सु॒क॒र्मकः॑। सु॒स्रो॒तस्कः॑॥

Siddhanta Kaumudi

Up

सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । नञ्सुभ्यम् <{SK3906}> त्यिस्यापवादः । सुकर्माणः सुयुजः (सु॒कर्मा॑णः सु॒युजः॑) । स नो वक्षदनिमानः सुवह्मा (स नो॑ वक्षदनिमा॒नः सुब्रह्मा॑) । शिवा पशुभ्यः सुमनाः सुवर्चाः (शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑) । सुपेशससकरति (सु॒पेश॑सस्करति) । सोः किम् । कृतकर्मा मनसी किम् । सुराजा (सु॒राजा॑) । अलोमोषसी किम् सुलोमा । सूषाः कपि तु परत्वा कपि पूर्वम् <{SK3907}> इति भवति । सुकर्मकः सुस्रोतस्यः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

मÄश्च मनसी । सुप्रथिमेति । पृथोर्भावः, पृथ्वादिब्य इमनिच्, र ऋतो हलादेर्लघोः इति रादेशः । पीयत इति पचः पिबतेरिञ्च इत्यसुन् । अशोर्देअवने युट् च इत्यसुन् , युडागमः , यशः । स्त्रुरिभ्यां तुट् स्रोतः । सुस्रत्, सुध्वद् इति । स्रंसुध्वंसुभ्यां क्विप्, वसुस्रंसु इत्यादिना दत्वम्, तस्यासिद्धत्वादत्रासन्तत्वम् । राज - तक्षशब्दौ कनिन्युवृशषि इत्यादिना कनिप्रत्ययान्तौ । लुनातेर्मनिन - लोम, उष दाहे, मिथुनेऽसिः इति वर्तमाने उषः कित् । अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन् - इत्येतानि गृह्यन्ते येषु सूत्रेषु तानि तथोक्तानि, तत्र तदन्तविधिं प्रयोजयन्तीति वचनादनर्थकानामप्यनिन्प्रभृतीनां ग्रहणं भवतीत्युक्तं भवति । तेन सुप्रथिमा, सुस्रत्, सुध्वदित्यादिकमप्यदाहरणमुपपद्यत इति भावः । कपि परत्वादिति । सोर्मनसी इत्यस्वावकाशः - सुकमा, सुशर्मा, कपि पूर्वम् इत्यस्यावकाशः - अयवकः, सुयवक इति एकस्थले विप्रतिषेधः ॥