6-2-117 सोः मनसी अलोमोषसी बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः
index: 6.2.117 sutra: सोर्मनसी अलोमोषसी
सोः उत्तरं मनन्तमसन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोषसी वर्जयित्वा। सुकर्मा। सुधर्मा। सुप्रथिमा। असन्तम् सुपयाः। सुयशाः। सुस्रोताः। सुस्रत्। सुध्वत्। सोः इति किम्? कृतक्रमा। कृतयशाः। मनसी इति किम्? सुराजा। सुतक्षा। अलोमोषसी इति किम्? सुलोमा। सूषाः। अनिनस्मङ्ग्रहणान्यर्थवता च अनर्थकेन च तदन्तविधिं प्रयोजयन्ति इत्यनर्थकयोरपि मनसोरिह ग्रहणम्। नञ्सुभ्याम् 6.2.172 इत्यस्य अयमपवादः। कपि तु परत्वात् कपि पूर्वम् इत्येतद् भवति। सुकर्मकः। सुस्रोतस्कः।
index: 6.2.117 sutra: सोर्मनसी अलोमोषसी
सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । नञ्सुभ्यम् <{SK3906}> त्यिस्यापवादः । सुकर्माणः सुयुजः (सु॒कर्मा॑णः सु॒युजः॑) । स नो वक्षदनिमानः सुवह्मा (स नो॑ वक्षदनिमा॒नः सुब्रह्मा॑) । शिवा पशुभ्यः सुमनाः सुवर्चाः (शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑) । सुपेशससकरति (सु॒पेश॑सस्करति) । सोः किम् । कृतकर्मा मनसी किम् । सुराजा (सु॒राजा॑) । अलोमोषसी किम् सुलोमा । सूषाः कपि तु परत्वा कपि पूर्वम् <{SK3907}> इति भवति । सुकर्मकः सुस्रोतस्यः ।
index: 6.2.117 sutra: सोर्मनसी अलोमोषसी
मÄश्च मनसी । सुप्रथिमेति । पृथोर्भावः, पृथ्वादिब्य इमनिच्, र ऋतो हलादेर्लघोः इति रादेशः । पीयत इति पचः पिबतेरिञ्च इत्यसुन् । अशोर्देअवने युट् च इत्यसुन् , युडागमः , यशः । स्त्रुरिभ्यां तुट् स्रोतः । सुस्रत्, सुध्वद् इति । स्रंसुध्वंसुभ्यां क्विप्, वसुस्रंसु इत्यादिना दत्वम्, तस्यासिद्धत्वादत्रासन्तत्वम् । राज - तक्षशब्दौ कनिन्युवृशषि इत्यादिना कनिप्रत्ययान्तौ । लुनातेर्मनिन - लोम, उष दाहे, मिथुनेऽसिः इति वर्तमाने उषः कित् । अनिनस्मन्ग्रहणानीति । अन्, इन्, अस्, मन् - इत्येतानि गृह्यन्ते येषु सूत्रेषु तानि तथोक्तानि, तत्र तदन्तविधिं प्रयोजयन्तीति वचनादनर्थकानामप्यनिन्प्रभृतीनां ग्रहणं भवतीत्युक्तं भवति । तेन सुप्रथिमा, सुस्रत्, सुध्वदित्यादिकमप्यदाहरणमुपपद्यत इति भावः । कपि परत्वादिति । सोर्मनसी इत्यस्वावकाशः - सुकमा, सुशर्मा, कपि पूर्वम् इत्यस्यावकाशः - अयवकः, सुयवक इति एकस्थले विप्रतिषेधः ॥