6-2-116 नञः जरमरमित्रमृताः बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः
नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समास आद्युदात्ता भवन्ति। अ॒जरः॑। अ॒मरः॑। अ॒मित्रः॑। अ॒मृतः॑। नञ इति किम् ? ब्रा॒ह्म॒णमि॑त्रः। जरादय इति किम् ? अ॒श॒त्रुः। <<नञ्सुभ्याम्>> ६.२.१७२ इति उत्तरपदान्तोदात्तत्वमेवात्र भवति॥
नञः परा एते आद्युदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् (श्रवो॑ दे॒वेष्व॑मृतम्) । नञः किम् । ब्राह्मणमित्रः । जेति किम् । अशत्रुः ॥