6-2-115 शृङ्गम् अवस्थायां च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सञ्ज्ञौपम्ययोः च
शृङ्गशब्द उत्तरपदमवस्थायां संज्ञौपम्ययोश्च बहुव्रीहावाद्युदात्तं भवति। उ॒द्ग॒त॒शृङ्गः॑। द्व्य॒ङ्गु॒ल॒शृङ्गः॑। त्र्य॒ङ्गु॒ल॒शृङ्गः॑।अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था। संज्ञायाम् — ऋ॒ष्य॒शृङ्गः॑। औपम्ये — गो॒शृङ्गः॑। मे॒ष॒शृङ्गः॑। अवस्थादिष्विति किम्? स्थू॒लशृङ्गः॑॥
शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषशृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ॥