6-2-114 कण्ठपृष्ठग्रीवाजङ्घम् च बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः सञ्ज्ञौपम्ययोः च
कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतान्युत्तरपदानि बहुव्रीहौ समासे संज्ञौपम्ययोराद्युदात्तानि भवन्ति। कण्ठः संज्ञायाम् — शि॒ति॒कण्ठाः॑ (तै०सं० ४.५.११.१)। नी॒ल॒कण्ठः॑। औपम्ये — ख॒र॒कण्ठः॑। उ॒ष्ट्॒रकण्ठः॑। पृष्ठः संज्ञायाम् — का॒ण्ड॒पृष्ठः॑। ना॒क॒पृष्ठः॑। औपम्ये — गो॒पृष्ठः॑। अ॒ज॒पृष्ठः॑। ग्रीवा संज्ञायाम् — सु॒ग्रीवः॑। नी॒ल॒ग्रीवः॑। द॒श॒ग्रीवः॑। औपम्ये — गो॒ग्रीवः॑। अ॒श्व॒ग्रीवः॑। जङ्घा संज्ञायाम् — ना॒डी॒जङ्घः॑। ता॒ल॒जङ्घः॑। औपम्ये — गो॒जङ्घः॑। अ॒श्व॒जङ्घः॑। ए॒णी॒जङ्घः॑॥
संज्ञौ पम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ॥
सुग्रीव इति । अत्र परत्वात् नञ्सुभ्याम् इत्यन्तोदातत्वेनभाव्यम्, अस्य तु दशग्रीवादिरवकाशः यदि तु नेष्यते, चकारस्यैव विधेः समुञ्चयार्थ इति व्याख्यातव्यम् । नाडीजङ्घ इति । नाड।लकारे जङ्घे यस्य नाडीजङ्घः ॥ नजो जरमरमित्रमृताः ॥ 6।2 -116 ॥ जरणं जरः, ऋदोरप् । मरणं मरः, अरु देव निपातनादप् । ऋइमिदा स्नेहने - अस्मात् क्त्रः, मित्रम् ॥