6-2-112 कर्णः वर्णलक्षणात् बहुव्रीहौ उत्तरपदात् उत्तरपदात् इः
बहुब्रीहौ समासे वर्णवाचिनो लक्षणवाचिनश्च कर्णशब्द उत्तरपदमाद्युदात्तं भवति। शु॒क्ल॒कर्णः॑। कृ॒ष्ण॒कर्णः॑। लक्षणात् — दा॒त्रा॒कर्णः॑। श॒ङ्कू॒कर्णः॑। लक्षणस्य०६.३.११५ इति दीर्घत्वम्। पशूनां विभागज्ञापनार्थं दात्रशङ्कुप्रतिरूपकं कर्णादिषु चिह्नं यत् क्रियते तदिह लक्षणं गृह्यते, तेन स्थू॒लक॑र्ण इत्यत्र न भवति। कर्ण इति किम्? श्वे॒तपा॑दः। कू॒टश्ृ॑ङ्गः। वर्णलक्षणादिति किम्? शो॒भ॒नक॑र्णः॥
वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् । श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ॥
दात्राकर्णः शडकूकर्ण इति । दात्रं कर्णे यस्य, शङ्कुः कर्णे यस्यति विग्रहः, सप्तम्याः पूर्वनिपाते गड्वादिभ्यः परवचनम् इति पनिपातः । कर्णे लक्षणस्याविष्टेत्यादिना दीर्घत्वम् । लक्ष्यते येन तल्लक्षणम्, ततश्च स्थूलकर्ण इत्यत्रापि प्राप्नोति, स्थौल्योनापि हि लक्षणीयत्वादत आह - पशूनां विभागज्ञापनार्थमित्यादि । एतच्च सामान्योक्तावपि वर्णग्रहणाल्लभ्यते अन्यथा वर्णेनापि लक्ष्यमाणत्वांतदमर्थकं स्यात् । श्विता वर्णे पचाद्यच् , कूट दाहे, इगुपधलक्षणः कः, शुभ शुम्भ शोभार्थे, अनुदातेतश्च हलादेः, इति युच् - शोभनः । प्रत्युदाहरणे सर्वत्र पूर्वपदप्रकृतिस्वर एव भवति । अण्ठकरणादीनां समाहारद्वन्द्वे नपुंसकह्नस्वत्वम् ॥