6-2-111 उत्तरपदात् इः बहुव्रीहौ
उत्तरपदादिरित्येतदधिकृतम्। यदित ऊर्ध्वमनुक्रमिष्याम उत्तरपदस्यादिरुदात्तो भवतीत्येवं तद् वेदितव्यम्। वक्ष्यति — <<कर्णो वर्णलक्षणात्>> ६.२.११२ — शु॒क्ल॒कर्णः॑। कृ॒ष्ण॒कर्णः॑। उत्तरपदस्येत्येतदा पादपरिसमाप्तेः। आदिरिति <<प्रकृत्या भगालम्>> ६.२.१३७ इति यावत्॥
उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु प्रकृत्या भगालम् <{SK3871}> इत्यवधिकः ॥
उतरपदग्रहथखणमसमस्तं लुप्तषष्ठीकम् । अत्रापि प्रकरण उतरपदनिर्देशे षष्ठ।ल्र्थे प्रथमा ॥