6-2-109 नदी बन्धुनि पूर्वपदम् अन्तः बहुव्रीहौ
बहुब्रीहौ समासे बन्धुन्युत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति। गा॒र्गीब॑न्धुः। वा॒त्सीब॑न्धुः। नदीति किम्? ब्रह्म॑बन्धुः। ब्रह्मशब्द आद्युदात्तः। बन्धुनीति किम्? गार्गी॑प्रियः॥
बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीबन्धुः । नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि किम् । गार्गीप्रियः ॥
बन्धुनि इति शब्दरुपापेक्षया नपुंसकनिर्देशः, गर्गवत्स शब्दाभ्यां गर्गादियञन्तभ्याम् यञश्चेति ङीप् , गार्गीवात्सीशब्दौ ञित्स्वरेणाद्यौदातौ । ब्रह्मशब्दो बृहेर्मनिन्प्रत्यये निपातितः ॥