क्षेपे

6-2-108 क्षेपे पूर्वपदम् अन्तः बहुव्रीहौ सञ्ज्ञायाम् उदराश्वेषुषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

क्षेपे गम्यमान उदरादिषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति। कु॒ण्डोद॑रः। घ॒टोद॑रः। क॒टु॒काश्वः॑। स्प॒न्दि॒ताश्वः॑। अ॒नि॒घा॒तेषुः॑। च॒ला॒च॒लेषुः॑। अ॒नु॒द॒रः, सू॒द॒र इत्यत्र <<नञ्सुभ्याम्>> ६.२.१७२ इत्येतद् भवति विप्रतिषेधेन॥

Siddhanta Kaumudi

Up

उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् <{SK3906}> इति भवति विप्रतिषेधेन ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यौदातः । घटशब्दः पचाद्यजन्तः । महेषुवदस्योपन्यासः । कटुअशब्दात्संज्ञायां कन् । स्पन्दितशब्दो निष्ठान्तः । निहन्यतेऽनेनेति निघातः ततोऽन्योऽनिघातः , अतोऽव्ययपूर्वपदप्रकृतिस्वरत्वम्, चरिचलिपतिवदिनां वा द्वित्वमच्याक्चाभ्यासस्य - चलाचलः । अनुदर इत्यादि । अस्यावकाशः - कुण्डोदर इत्यादि, नञ्सुभ्याम् इत्यस्यावकः शः - अयशः, सुयशः, एवं स्थिते विप्रतिषेधः ॥