उदराश्वेषुषु

6-2-107 उदराश्वेषुषु पूर्वपदम् अन्तः बहुव्रीहौ सञ्ज्ञायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उदर अश्व इषु इत्येतेषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्वपदमन्तोदात्तं भवति। वृ॒कोद॑रः। दा॒मोद॑रः। ह॒र्य॑श्वः। या॒ैव॒नाश्वः॑। सु॒व॒र्ण॒पु॒ङ्खेषुः॑। म॒हेषुः॑॥

Siddhanta Kaumudi

Up

संज्ञायामिति वर्तते वृकोदरः । हर्यश्वः । महेषुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अयमपि पूर्वपदप्रकृतिस्वरस्यापवादः । वृकशब्दः प्रणिनां च कुपूर्वाणाम् इत्याद्यौदातः, वृकास्येवोदरं यस्य वृकीदरः । दाम उदरे यस्य दामोदरः, दामशब्दो मनिन्प्रत्ययान्तः । हरतेः सर्वधातुभ्य इन् इतीन्, हरिदश्वो यस्य हर्यश्वः । यौवनशब्दोऽव्युत्पन्नं प्रतिपदिकम्, लघावन्तेद्वयोश्च वह्वषो गुरुः इत्याद्यौदातः । यूनो भावो यौवनमिति युवाद्यणन्तत्वे प्रत्ययस्वरेणान्तोदातत्वात् पूर्पपदप्रकृतिस्वरेणैव सिद्धम् । सुवर्णपुङ्खेशुरिति । शोभनो वर्णो येषां ते सुवर्णाः, नञ्सुभ्याम् इत्यन्तोदातत्वम्, सुवर्णाः, पुङ्खायोषां ते सुवर्णपुङ्खाः, पूर्वपदप्रकृतिस्वरेण मध्योदातत्वम्, पननरिषुशब्देन बहुव्रीहिः । महेषुरिति । महच्छब्दोऽन्तोदात इति महान्व्रीह्यपराह्ण इत्यत्रोक्तम् । तस्मातत्पूर्वपदप्रकृतिस्वरेणैव सिद्धे सति तस्यान्यार्थ आरम्भः अपवादत्वादनेनैवान्तोदातत्वं युक्तमित्यस्योपन्यासः ॥