6-2-106 बहुव्रीहौ विश्वं सञ्ज्ञायाम् पूर्वपदम् अन्तः
बहुब्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषयेऽन्तोदात्तं भवति। वि॒श्वदे॑वः। वि॒श्वय॑शाः। वि॒श्वम॑हान्। पूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम्। बहुब्रीहाविति किम्? विश्वे च ते देवा वि॒श्व॒दे॒वाः। संज्ञायामिति किम्? विश्वे देवा अस्य विश्व॑देवः। वि॒श्व॒मि॒त्रः, वि॒श्वा॒जि॒न इत्यत्र <<संज्ञायां मित्राजिनयोः>> ६.२.१६५ इत्येतद् भवति परत्वात्। बहुब्रीहावित्येतदधिक्रियते प्रागव्ययीभावसंज्ञानात् ६.२.१२१॥
बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः (वि॒श्वक॑र्मा वि॒श्वदे॑वः) । आविश्वदेवं सत्पतिम् (आवि॒श्वदे॑वं॒ सत्प॑तिम्) । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः (विश्व॑देवः) । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ॥