6-2-104 आचार्योपसर्जनः च अन्तेवासिनि पूर्वपदम् अन्तः दिक्शब्दाः
आचार्योपसर्जनान्तेवासिवाचिन्युत्तरपदे दिक्शब्दा अन्तोदात्ता भवन्ति। पू॒र्वपा॑णिनीयाः। अ॒प॒रपा॑णिनीयाः। पू॒र्वका॑शकृत्स्नाः। अ॒प॒रका॑शकृत्स्नाः। आचार्योपसर्जन इति किम्? पू॒र्व॒श्िाष्याः। अन्तेवासिनीति किम्? पू॒र्व॒पा॒ण्िानी॒यं शास्त्रम्॥
आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ॥