6-2-103 दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु पूर्वपदम् अन्तः
दिक्शब्दाः पूर्वपदान्यन्तोदात्तानि भवन्ति ग्रामजनपदाख्यानवाचिषूत्तरपदेषु, चानराटशब्दे च। पू॒र्वेषु॑कामशमी, पू॒र्वे॑षुकामशमी। अ॒प॒रेषु॑कामशमी, अ॒प॒रे॑षुकामशमी। पू॒र्वकृ॑ष्णमृत्तिका। अ॒प॒रकृ॑ष्णमृत्तिका। जनपद — पू॒र्वप॑ञ्चालाः। अ॒प॒रप॑ञ्चालाः। आख्यान — पू॒र्वाधि॑रामम्, पू॒र्वा॑धिरामम्। पू॒र्वया॑यातम्। अ॒प॒रया॑यातम्। अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम्। तथा यायातम्। चानराट — पू॒र्वचा॑नराटम्। अ॒प॒रचा॑नराटम्। शब्दग्रहणं कालवाचिनोऽपि दिक्शब्दस्य परिग्रहार्थम्॥
दिक्शब्दा अन्तोदात्त भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । आख्याने । पूर्वयातम् । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ॥
चानराटे स्वरुपग्रहणम्, इतरेषु अर्थग्रहणम्। पूर्वेषुकामशमीति । दिक्संख्ये संज्ञायाम् इति समासः । पूर्वपञ्चाला इति । समुदाये हि वृत्तोः शब्दा अवयवेष्वपि वर्तन्ते तैति पञ्चालैकदेशे पञ्चालशब्दः, ततः पूर्वापरप्रथम इत्यादिना कर्मधारयः । शब्दग्रहणमित्यादि । दिशि दृष्टः शब्दो दिक्शब्द इत्युतरपदेलोपो समासः तेन कालवाचिनोऽपि ग्रहणात् पूर्वयायतमित्यादावपि भवति ॥