बहुव्रीहौ प्रकृत्या पूर्वपदम्

6-2-1 बहुव्रीहौ प्रकृत्या पूर्वपदम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वपदग्रहणमत्र पूर्वपदस्थे स्वर उदात्ते स्वरिते वा वर्तते। बहुब्रीहौ समासे पूर्वपदस्य यः स्वरः स प्रकृत्या भवति, स्वभावेनावतिष्ठते, न विकारमनुदात्तत्वमापद्यते। समासान्तोदात्तत्वे हि सति <<अनुदात्तं पदमेकवर्जम्>> ६.१.१५८ इति सोऽनुदात्तः स्यादिति समासान्तोदात्तत्वापवादोऽयमारभ्यते। कार्ष्णो॑त्तरासङ्गाः। कृष्णो मृगस्तस्य विकारः कार्ष्णः। <<प्राणिरजतादिभ्योऽञ्>> ४.३.१५४ इत्यञ्प्रत्ययान्तो ञित्स्वरेणाद्युदात्तः। यूप॑वलजः। यूपशब्द उणादिषु <<कुसुयुभ्यश्च>> (द०उ० ७.५) इति पप्रत्ययान्तः। तत्र च दीर्घ इति निदिति च वर्तते, तेनाद्युदात्तः। ब्र॒ह्म॒चा॒रिप॑रिस्कन्दः। ब्रह्मचारिशब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः। स्नात॑कपुत्रः। स्नातकशब्दः कन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः। अ॒ध्याप॑कपुत्रः। लित्स्वरेणाध्यापकशब्दो मध्योदात्तः। श्रोत्रि॑यपुत्रः। श्रोत्रियशब्दो नित्त्वादाद्युदात्तः। म॒नु॒ष्य॑नाथः। मनुष्यशब्दः <<तित् स्वरितम्>> ६.१.१८५ इति स्वरितान्तः। उदात्तग्रहणं स्वरितग्रहणं चात्रानुवर्तते, तेन सर्वानुदात्ते पूर्वपदे विधिरेव नास्तीति समासान्तोदात्तत्वं भवति — स॒म॒भा॒ग इति। समशब्दो हि सर्वानुदात्तः॥

Siddhanta Kaumudi

Up

उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः (स॒त्यश्चि॒त्रश्र॑वस्तमः) । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

इह यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः। न च कृत्स्नस्य पूर्वपदस्य शेषनिघातलक्षणो विकारः प्राप्तः किन्तु तत्स्थयोरुदातस्वरितयोरेव, तस्मात्योरेव पूर्वपदशब्दो वर्तते,तदाह - पूर्वपदग्रहणमित्यादि। समासान्तोदातत्वे हीत्यादिना विकारप्राप्तिं दर्शयति। समासान्तोदातत्वापवादोऽयमिति। नाप्राप्ते तस्मिन्नारम्भात् । ननु च यत्र सामान्यविधिप्रपृतिमनपेक्ष्य विशेषविधिप्रवृत्तिस्तत्रापबादत्वम्, यथा - कर्मण्यण् आतोऽनुपसर्गे कः इति इह तु सत्यां विकारप्राप्तौ प्रकुतिभावो विधेयः, विकारप्राप्तिश्च समासस्येत्यस्मिन् प्रववृत इति कथं तत्प्रवृत्यपेक्षस्तदपवादः, अतः समासस्येत्यस्मिन्प्रवृते प्राप्तस्य शोषनिधातस्यैवायमपवादो युक्तः नैतदेधम, यद्ययं निघातापवादः स्यात्, तत्रैवायं ब्रूयाद् - अनुदातम्पदमेकवर्जम बहुव्रीहौ पूर्यपदम् इति । नन्वेवनुत्यमाने समपाद इत्यादौ स्वाभाविकस्यापि पूर्वपदानुदातस्य प्रतिषेधप्रसङ्गः, किं कारणमनन्तरस्य विधिर्वा भवति प्रतिपेधो वा इति तस्मात्समासस्येतेयस्यानन्तरमारभ्यमाणस्तस्यैवायमपवादः। ननु चेक्तम् - कथं तत्प्रवृकत्यपेक्षस्तदपवादः इति उच्यते निदानएच्छेदेन निदानिन उच्छेदः शक्यते कर्तुम्, समासान्तोदातत्वं च शेषनिधातलक्षणस्य पूर्वपदविकारस्य निदानम्, अतस्तदभावद्वयोरेण निदानभूतस्य समासान्तोदातस्यैवास्मिन् विषयेऽप्रवृत्तिराख्यायते । नन्वेवं नानापदस्वरप्राप्तौ समाससान्तोदातस्यारम्भातदप्रवृतौ द्वयोरपि पूर्वेतरपदयोः प्रकृत्स्वरप्रसङ्गः, तथा हि सति न बहुव्रीहेः इति समासान्तोदातत्वमेव प्तिपेवेत्, अस्तु वा समासान्तोदातत्वम्, अस्तु वा सोषविधातः, पश्चातु प्रकृत्वेत्यनेन स्वरविशेशमुपलक्ष्य स स्वरः पूर्वपदस्य विधीयते, शेषविधातात्प्राक् पूर्वपदास्य प्रकृत्या यः स्वरस्तत्स्वरकं पूर्वपदं बहुव्रीहौ भवतीतिः यदि वा प्रकृत्या इत्यनेनस्वरविशेषे उपलक्षिते सत्ययमर्थो भवति बहुव्रीहौ पूर्वपदस्य स्वभाविको यः स्वर आद्यौदातत्वादिकः स भवतीति, एवं च यथा पूर्वपदस्यादिरुदातो भवतीत्युक्तेन समासस्येत्येतत्प्रवृत्यपेक्षा, तादृगोतदिति युज्यते तदपवादता। कृष्णो मृग इति। यस्याजिनं कृष्णाजिनमित्युच्यते। ब्रह्मचारिन्शब्दः कृदुतरपदप्रकृतिस्वरेणान्तोदात इति। तथा चाधीयते - एब्रह्मचारी चरति विषयद्विषाम्। कस्य ब्रह्मचार्यसीत्यादौ णिनिः, पूर्वपदाद्यौत दातत्वं तु न भवति, प्रवृद्धादिषु पाठादाकुतिगणो हि स इष्यते । वृतौ तु कृदुतरपदप्रकृतिस्वरेणेत्युपलक्षणम् । अपर आह-च्छन्दसि परादिश्च परान्तश्च इत्यन्तेदातत्वम्। वृतेस्त्वयमर्थः - ब्रह्मएव चरति ब्रह्मचारीत्युपमानमत्र पूर्वपदम्, ततः किमुपमानं शब्दार्थप्रकृतावेव इति नियमात्कृदुतरपदप्रकृतिस्वर एव भवतीति । स्नातकशब्दः कन्प्रत्ययान्त इति। यावादिषु स्नात वेदसमाप्तौ इति पठ।ल्ते । मनोर्जातावञ्यतौ षुक्च, मनुष्यः । यदि तर्ह्मयं प्रकृतिभावः समासान्तोदातत्वं बाधते, सर्वानुदातेऽपि पूर्वपदे बाधेत, तत्रापि ह्यस्य प्रवृत्तिर्न केनचिद्वार्यते, विशेषविधिश्च प्रवर्तमानः सत्यपि सम्भवे, सामान्यविधेर्बाधको भवति, तक्रदानमिव दधिदानस्य इत्यत आह - उदातग्रहणमित्यादि । न्यायतेऽप्ययमर्थः सिद्धः, कथं यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, विकारप्राप्तिश्चोदातस्वरितयोरेव, अत एव पूर्वमुक्तमुदाते स्वरिते वा वर्तते इति। समभाग इति । समशब्दः सुञो डमप् इति व्युत्पादितः सर्वानुदाततः । नन्वत्रासत्यपि समासान्तोदातत्वे भागशब्दस्य कर्षात्वतः इति अन्तोदातात्वत् समाभागशब्दोऽन्तोदात एव भविष्यति। तस्मादुदाहराणदिगियं दर्शिता, समपाद इत्युदाहर्तव्यम्, पादशब्दो वृषादित्वादाद्यौदातः। किमर्थं पुनरिदमुच्यते पूर्वपदप्रकृतिस्वरो यथा स्यात्, समासान्तोदातत्वं मा भूदिति,नञ्सुभ्याम् इत्येतन्नियमार्थं भविष्यति - यदि बहुव्रीहौवन्तोदातत्वं भवति नञ्सुभयामेवेति। न चैवं नानापदस्वरप्राप्तौ समासान्तोदातत्वविधानान्नियमेन तस्मिन्व्यावितितेऽपि पूर्वोतरापदयोर्द्वयोरपि पर्यायोण प्रकृतिस्वरप्रसङ्गः, एशितेर्नित्याबह्वच् इत्यस्य नियमार्थत्वात् यदि बहुव्रीहावुतरपदं प्रकृत्या भवति शितेरेव परमिति उच्यते नञ्सुभयाम् इत्येष तावन्नियमे नेपपद्यते अनुदरः, सूदर इत्यादौ उदाराश्वेषु क्षेपे इति पूर्वपदान्तोदातस्य प्राप्तस्य बाधनाद्विधिसम्भवात्। शितेर्नित्याबह्वच् इत्येतदपि - शितेर्नित्याबह्वजेवेत्यनेन नियमेत शीतिललाटादिषेवेवोतरपदाप्रकृतिस्वरं निवर्तयेत्, न चित्रगुप्रभृतिष्वित्यारभ्यमेवैतत् । बहुव्रीहिग्रहणं तु शक्यमकर्तुम् तत्पुरुषे कस्मान्न भवति तत्पुरुषे तुल्यार्थ इत्यादिनियमार्थं भविष्यति - तत्पुरुषे तुत्यार्थाद्येवेति, गन्तव्यपण्यमेव वाणिजे,गतादिष्वेवोतरवदेषु द्विगावित्यादि। द्वन्द्वे कस्मान्न भवति राजन्यबहुवचने इत्येतन्नियमार्थं भविष्यति - द्वन्द्वे भवति राजन्यबहुवचनद्वन्द्व एवेति। अव्ययीभावे कास्मान्न भवति परिप्रत्युपापावर्ज्यमान इत्यादि नियमार्थं भविष्यति - परिप्रत्थुपापा एवाव्ययीभाव इति । विपरीतस्तु नियमः सर्वत्र न भविष्यति नानिष्टार्था शास्त्रप्रवूतिरिति। एवमप्यसति बहुवीहिग्रहणे समासान्तोदातस्य पूर्वपदप्रकृतिस्वरस्य चैकविशयत्वाद्विरोधाच्च तुल्यश्वतः, पञ्चारत्निरित्यादौ पर्यायः प्राप्नोति तत्पुरुषादिषु तुल्यार्थादीन्येव पूर्वपदानि प्रकृतिस्वराणि भवन्ति नान्यानि इत्येव हि नियमः कृतः, न तुल्यार्थादिपूर्वपदेषु तत्पुरुपादिषु पूवपदाप्रकृतिस्वलत्वमेव इति । अथाम्यगृह्यमाणविशेषत्वादुभयनियमः तत्पुरुपादिषु तुल्यार्थादीन्येव, तेषु पूर्वपदप्रकृतिस्वरत्वमेवेति तथा च बह्वन्यतरस्याम् इति वर्तमाने दिष्टिवितस्त्योश्चेति विकल्पो विधीयते, पञ्चदिष्टिः, पञ्चवितस्तिरित्यादौ इगन्ते द्विगौ इति नित्यपूर्वपदप्रकृतिस्वरो मा भूदिति तथापि चित्रगुरित्यादौ बहुव्रीहौ पर्यायप्रसङ्गः, ज्ञापकात्सिद्धम्, यदयम् द्वित्रिभ्यां पाददन्मूर्द्धसु इति द्विपादित्यादावान्तोदातविकल्पं शास्ति, तज्ज्ञापयति - न बहुव्रीहावन्तोदातत्वं पर्यायोण भवतीति एवमप्युदातविषयमेव ज्ञापकं स्यात् - बहुव्रीहावन्तोदातत्वं पर्यायेण भवतीति । किञ्च स्यात् उदातस्वरितयोस्तु पूर्वोतरपदस्थयोः पर्यायप्रसङ्गः । न च स्वरिते य उदातस्तदाश्रयं ज्ञापकं युज्यते, अचो ह्युदातसंज्ञा, न च वर्णैकदेशो गृह्मते । अथ वर्णत्वावर्णत्वकृतं भेदमुत्सृन्योदातश्रुतिपरं ज्ञापकं वण्यैत, तदा बहुव्रीहिग्रहणं शक्यमकर्तुम् ॥ एतत्पुरुषे तुल्यार्थतुतीयसप्तम्युपमानाव्ययद्वितीयाकृत्या ॥ 6।2 - 2 ॥ सदृक्शब्दोऽपीत्यादि। कृदुतरपदप्रकृतीस्वरेणेत्येतदपेक्षते। कुमुदशब्दोऽपीत्यादि । तत्र यदा कप्रत्ययान्तस्तदा थाथादिस्वरेणान्तोदातः, तथा च अनुदातस्य च यत्रोदातलोपः इत्यत्र कुमुद्वानित्युदाहृतम्, उक्तं च - कुमुदातयोऽन्तोदाता इति। यदा त्वव्युत्पन्नं तदा नब्विषयस्यनिसन्तस्य इत्याद्यौदात इत्युक्तम् । अपर आह - जलजे नपुंसकविषयः कुमुदशब्दः, यस्तु वानरविशेषे कुमुदशब्दः स पुंल्लिङ्गः, तत्रेह जलजवाच्युदाहृतः, अनुदातस्य च इत्यत्र तु वानरवचन इति । दूर्वाकाण्डशरकाण्डशब्दावित्यादि। आद्यप्राप्तिप्रदर्शनमेतत्, षट् च कण्डादीनि इत्युतरपदाद्यौदातत्वेन तत्र भाव्यम्। नञ्कुनिपातानामिति। निपातत्वादेव सिद्धे नञ्ग्रहणमकरणिरित्यादौ परस्यापि कृत्स्वरस्य बाधनार्थम् । तथा चाव्यथीत्यत्रापि कृता सह निर्दिष्टो यत्र नञ्, तत्रापि नञ एव स्वरो भवति, तथा विभक्तिस्सरान्नञ्स्वरो बलीयान् भवति । कुग्रहणं तु चादिषु पाठाभावात्, पठितव्यस्त्वसौ, अन्यथाऽव्ययसंक्षा न स्यात स्वरादिष्वपि पाठाभावात् । स्नात्वाकालक इति । मयूरव्यंसकादिरयम् । यद्येवम्,स तत्रैवान्तोदातः पठिष्यते एवमपि परिगणनं कर्तव्यम्,सामिकृतम्,स्वयन्धौतमित्यादौ प्रकृतिरवरो मा भूदिति। इह कस्मान्न भवति-परमं कारकं परमकारकम्,परमेण कारकेण परमकारकेण,परमे कारके परमकारके इति न हि विशेषणसमासः प्रथमान्तानामेवेति नियमेऽस्ति । तेन द्वितीयाद्यन्तं पूर्वपदमित् चोद्यम् । परिहारस्तु लक्षणप्रतिपदोक्तपरिभाषया तृतीयादीनां प्रतिपदं यः समासस्तत्रायं स्वरः। अयं तु विभक्तिविशैषमनुपादाय विशेषणसमास इति ॥