6-1-61 ये च तद्धिते उपदेशे छन्दसि
index: 6.1.61 sutra: ये च तद्धिते
शीर्षनिति वर्तते। आदेशोऽयम् इष्यते। स कथम्? तद्धिते इति हि परं निमित्तमुपादीयते, स तदनुरूपां प्रकृतिं शिरःशब्दमाक्षिपति। यकारादौ तद्धिते परतः शिरःशब्दस्य शीर्षन्नादेशो भवति। शिर्षण्यो हि मुख्यो भवति। शीर्षण्यः स्वरः। शिरसि भवः इति शरीरावयवाच् च 4.3.55 इति यत्, ये च अभावकर्मणोः 6.4.138 इति प्रकृतिभावः। तद्धिते इति किम्? शिरः इच्छति शिरस्यति। वा केशेषु। शिरसः शीर्षन्नादेशो वक्तव्यः। शीषर्ण्याः केशाः, शिरस्याः केशाः।
index: 6.1.61 sutra: ये च तद्धिते
यादौ तद्धिते परे शिरश्शब्दस्य शीर्षन्नादेशः स्यात् । शीर्षण्यः । तद्धिते किम् । शिर इच्छति शिरस्यति ।<!वा केशेषु !> (वार्तिकम्) ॥ शीर्षण्याः शिरस्या वा केशाः ।<!अचि शीर्ष इति वाच्यम् !> (वार्तिकम्) ॥ अजादौ तद्धिते शिरसः शीर्षादेशः । स्थूलशिरस इदं स्थौलशीर्षम् ॥
index: 6.1.61 sutra: ये च तद्धिते
पद्दन्नोमाशृन्निशसन्यूषन्दोषन्यकञ्छकनुदन्नासञ्छस् प्रभृतिषु - अथ पादशब्दस्य शसादौ विशेषं दर्शयितुमाह — पद्दन्नो । पद्-दत्-नस्-मास्-ह्मद्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन्-इत्येषां समाहरद्वन्द्वः । शश्-द्वितीयाबहुवचनं प्रभृति=आदिः येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः ।अनुदात्तस्य चर्दुपधस्यान्यतरस्या॑मित्यतोऽन्यतरस्यामित्यनुवर्तते । शसादिषु परेषु पदादय आदेशा वा स्युरित्यर्थः । पदाद्यादेशैश्च स्वानुरूपाः स्थानिन आक्षिप्यन्ते । तदाह — पदादन्तेत्यादिना । यथासङ्ख्यापरिभाषया, पादादीनां क्रमेण पदादय आदेशाः प्रत्येतव्याः । तत्प्रामादिकमिति । भ्रममूलकमित्यर्थः । 'हव्या जुहान आसनि' इति मन्त्रेआसन्यं प्राणमूचु॑रित्यादौ च आस्यार्थकत्वस्यैव दर्शनादिति भावः । दन्तशब्दस्य सुटि रामवत् । शसि पद्दन्निति ददादेशः । दत्-अस् इति स्थिते तकारस्य 'झलां जशोऽन्ते' इति पदान्ते विधीयमानं जश्त्वमाशङ्कितुं पदसंज्ञाविधायकं सूत्रं वक्ष्यति — ॒स्वादिष्वसर्वनामस्थान॑ इति ।
index: 6.1.61 sutra: ये च तद्धिते
च्छन्दसि पूर्वेणैव सिद्धमिति। भाषार्थमिदम्, यदि पूर्वसूत्रवदिहापि शीर्षन्निति प्रकृत्यन्तरं विज्ञायेत तदा। यदा शिरः शब्दाद्यचकारादिस्तद्धित उत्पद्यते तदा तस्य श्रवणं प्रसज्येतेति मत्वाऽऽह -आदेशोऽयमिष्यत इति। स कथमिति। स आदेशः कथं लभ्यते, न कथञ्चित्, स्थानिनोऽनुपादानात् पूर्वसूत्रवदिति प्रश्नः। तन्ननिमितमनुरूपां शब्दतश्चार्थतश्चान्तरतमां प्रकृतिं शिरशब्दमेवाक्षिपति। शिरस्यातीति।'सुप आत्मनः क्चन्' । वा केसेष्विति। सूत्रेण न्त्ये प्राप्ते विकल्पितः। अत्र शिरस्यशब्दस्य केशैकविषयत्वातत्प्रयोगे केशशब्दो न प्रयोक्तव्यः, शीर्षण्यशब्दस्तु सामान्यवाचीति तत्प्रयोगे विशेषावगमाय केशशब्दः प्रयोक्तव्यः ॥