6-1-60 शीर्षन् छन्दसि उपदेशे
index: 6.1.60 sutra: शीर्षंश्छन्दसि
शीर्षनिति शब्दान्तरं शिरःशब्देन समानार्थं छन्दसि विषये निपात्यते, न पुनरयमादेशः शिरःशब्दस्य। शोऽपि हि छन्दसि प्रयुज्यत एव। शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति। यत्ते शीर्ष्णो दौर्भाग्यम्। छन्दसि इति किम्? शिरः।
index: 6.1.60 sutra: शीर्षंश्छन्दसि
शिरःशब्दस्य शीर्षन् स्यात् । शीर्ष्णः शीर्ष्णोजगतः (शी॒र्ष्णः शी॑र्ष्णो॒जग॑तः) ॥
index: 6.1.60 sutra: शीर्षंश्छन्दसि
ये च तद्धिते (अचि शीर्षः) - ये च तद्धिते । शीर्षन्नादेश इति । शीर्षंश्छन्दसीत्यतस्तदनुवृत्तेरिति भावः । शीर्षण्य इति शिरसे हित इत्यर्थः । शरीरावयवत्वाद्यति शीर्षन्नादेशेये चाऽभावकर्मणो॑रिति प्रकृतिभावान्न टिलोपः । शिरस्यतीति । शिर आत्मन इच्छतीत्यर्थे 'सुप आत्मनः' इति क्यचि, 'नः क्ये' इति नियमात्पदत्वाऽभावान्न रुत्वम् ।वा केशेषु । केशेषु वाच्येषु यो यकारादिस्तद्धितस्तस्मिन्परे शिरसः शीर्षन्नादेशो वा स्यादित्यर्थः । प्रसङ्गादाह — अचीति ।
index: 6.1.60 sutra: शीर्षंश्छन्दसि
न पुनरयमादेशः शिरःशब्दस्येति। यद्यपि सूत्रे शिरस इति स्थानी नोपातः, तथापि समानार्थत्वादादेशेनाक्षिप्यते, यथा-शिवादिषु विश्रवणरवणशब्दाभ्यां विश्रवःशब्द इत्यादेशत्वशङ्का। सोऽपि हि च्छन्दसि प्रयुज्यत इति। आदेशक्षपक्षे तु तेन निवर्तितत्वाच्छिरःशब्दो न प्रयुज्येतेति भावः। ननु च ठन्यतरस्याम्ऽ इत्यनुवृतेस्तस्यापि प्रयोगो भविष्यति, सत्यम्; उतरत्रापि विकल्पानुवृत्तिः शङ्क्येतेति प्रकृत्यन्तरपक्ष एवाश्रितः ॥