6-1-59 अनुदात्तस्य च ऋदुपधस्य अन्यतरस्याम् उपदेशे झलि अम् अकिति
उपदेश इति वर्तते, झल्यमकितीति च। उपदेशेऽनुदात्तस्य धातोर्ऋकारोपधस्य झलादावकिति प्रत्यये परतोऽन्यतरस्याममागमो भवति। त्रप्ता, तर्पिता, तर्प्ता। द्रप्ता, दर्पिता, दर्प्ता। <<तृप प्रीणने>> <<दृप हर्षणमोचनयोः>> इत्येतौ रधादी धातू, तयोरिडागमो <<रधादिभ्यश्च>> ७.२.४५ इति विकल्प्यते। अनुदात्तोपदेशः पुनरमर्थ एव। अनुदात्तस्येति किम् ? वर्ढा। वर्ढुम्। वर्ढव्यम्। <<वृहू उद्यमने>> इत्ययमुदात्तोपदेश ऊदित्वात् चास्येड् विकल्प्यते। ऋदुपधस्येति किम् ? भेत्ता। छेत्ता। झलीत्येव — तर्पणम्। दर्पणम्। अकितीत्येव — तृप्तः। दृप्तः॥
उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् ।{$ {!984 यम!} उपरमे$} । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् ।{$ {!985 तप!} संतापे$} । तप्ता । अताप्सीत् ॥
उपदेशेऽनुदात्तो य ऋदुपधस्तस्याम्वा स्याज्झलादावकिति । क्रष्टा, कर्ष्टा । कृक्षीष्ट । <<स्पृशमृशकृषतृपदृपां च्लेः सिञ्वा वाच्यः>> (वार्त्तिकम्) । अकृक्षत । अकृक्षाताम् । अकृक्षन्त ॥॥ {$ {! 5 मिल !} संगमे $} (धातुपाठे <{06.0165}>) ॥ मिलति, मिलते । मिमेल । मेलिता । अमेलीत् ॥ {$ {! 6 मुचॢ !} मोचने $} (धातुपाठे <{06.0166}>) ॥