6-1-57 नित्यं स्मयतेः आत् येचः उपदेशे णौ हेतुभये
णाविति वर्तते, हेतुभय इति च । नित्यग्रहणाद् विभाषेति निवृत्तम्। <<ष्मिङ् ईषद्धसने>> इत्यस्य धातोर्हेतुभयेऽर्थे णौ परतो नित्यमाकारादेशो भवति। मुण्डो विस्मापयते। जटिलो विस्मापयते। भय इत्येव — कुञ्चिकयैनं विस्माययति। भयशब्देन धात्वर्थसामान्याद् इह स्मयतेरर्थोऽभिधीयते। न हि मुख्ये भये स्मयतेर्वृत्तिरस्ति॥
स्मयतेरेचो नित्यमात्वं स्याण्णौ हेतोः स्मये । जटिलो विस्मापयते । हेतोश्चेद्भयस्मयावित्युक्तेर्नेह । कुञ्चिकयैनं भाययति । विस्माययति । कथं तर्हि विस्मापयन् विस्मितमात्मवृत्ताविति । मनुष्यवाचेति करणादेव हि तत्र स्मयः । अन्यथा शानजपि स्यात् । सत्यम् । विस्माययन्नित्येव पाठ इति साम्प्रदायिकाः । यद्वा । मनुष्यवाक् प्रयोज्यकर्त्री विस्मापयते तया सिंहो विस्मापयन्निति ण्यन्ताण्णौ शतेति व्याख्येयम् ॥
<<नित्यं स्मयतेः>> - नित्यं स्मयतेः । 'आदेच उपदेशे' इत्यत एचेति, आदिति चानुवर्तते । चित्फुरो॑रित्यतो णाविति, 'बिभेतेर्हेतुभये' इत्यतो हेतुभये इति च । तत्र च भयग्रहणं स्मयस्याप्युपलक्षणम्, अत्र तु स्मय एव विवक्षितः, स्मयतेर्भीत्यर्थकत्वाऽसंभवात् । तदाह — स्मयतेरेच इत्यादि । 'विभाषा लीयते' रित्यतो विभाषानुवृत्तिनिवृत्तये नित्यग्रहणम् । अथ 'बिभेतेर्हेतुभये' इति,नित्यं स्मयते॑रिति च आत्त्वविधौ,भीस्म्योर्हेतुभये॑इति आत्मनेपदविधौ च हेतुग्रहणस्य प्रयोजनमाह — हेतोश्चेद्भयस्मयावित्युक्तेर्नेहेति । कुञ्चिकयैनमिति । केशबन्धविशएषः कुञ्चिका । तस्याश्च करणतया प्रयोजककर्तृत्वाऽभावादात्त्वं षुक् च नेति भावः । आक्षिपति — कथमिति । रघुवंशकारव्ये — तमार्यगृह्रं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम् । विस्मापयन् विस्मितमात्मवृत्तौ सिंहोरुसत्त्वं निजगाद सिंहः॥ इति श्लोके विस्मापयन्निति कथमित्याक्षेपः । प्रयोजकाद्भ्याऽभावेन आत्त्वपुगनुपपत्तेरिति भावः । ननु मनुष्यवागेव तत्र प्रयोजिककेत्यत आह — मनुष्येति । मनुष्यवाचेति तृतीयान्तगम्यकरणान्मनुष्यवागात्मकादेव हि तत्र स्मयः । ननु करणभूताऽपि मनुष्यवाक् प्रयोजिका कुतो नेत्यत आह — अन्यथेति । मनुष्यवाचः स्मयप्रयोजकत्वमभ्युपगम्य आत्त्वाश्रयणे 'भीस्म्योर्हेतुभये' इत्यात्मनेपदमपि स्यादित्यर्थः । स्मयोऽत्र प्रयोजकमूलको नेति युक्तमेव, किन्त्वात्त्वपुगाक्षेपो न युज्यते इत्यद्र्धाङ्गीकरेण परिहरति - सत्यमिति । विस्माययन्नित्येति । णौ आयादेशे स्मायीत्यस्माल्लटः शतरि शपि णेर्गुणे अयादेशे विस्माययन्नित्येव कालिदासो महाकविः प्रायुङ्क्त । 'विस्मापय' न्निति पकारपाठस्तु लेखप्रमादकृत इति भावः । यद्वेति । राजा दिलीपो विस्मयते । तं सिंहोच्चारिता मनुष्यवाक् प्रयोजयति — विस्मापयते मनुष्यवाक् राजानम् । अत्र मनुष्यवाक् प्रयोजककत्र्री । राजा तु प्रयोज्यकर्तेति स्थितिः । अत्र स्मयस्य प्रयोजककर्तृभूतमनुष्यवाङ्मूलकत्वादात्त्वे पुक् । मूलेप्रयोज्यकत्र्री॑त्येव पाठः सुगमः । तां विस्मापयमानां प्रयोजककत्र्री मनुष्यवाचं प्रयोजयति सिंहः विस्मापयति । स्मापीति ण्यन्ताण्णौ प्रथमणेर्लोपे स्मापि इत्यस्माच्चतृप्रत्यये शपि णेर्गुणे अयादेशे विस्मापयन्निति भवतीत्यप्रेत्य आह — तया सिंह इति । प्रयोजककर्तरि तृतीया । आत्मनेपदं भीस्मिप्रकृतिकण्यन्तादेव, नतु ण्यन्तप्रकृतिकण्यन्तादिति भावः ।
धात्वर्थसामान्यादिति। सामान्यमुसादृश्यम्, धात्वर्थयोः सामान्यं धात्वर्थसामान्यम्, द्वयोरपि धात्वोरर्थो चितविकारस्वभावौ, तेन भयशब्देन स्मयतेरर्थेऽभिधीयते,'क्रीङ्जीनां णौ' इत्यत्र स्मयतिर्नोक्तः,'हेतुभये' इत्युपाधिं वक्ष्यामीति ॥