6-1-56 बिभेतेः हेतुभये आत् येचः उपदेशे विभाषा णौ
णाविति वर्तते,विभाषेति च। हेतुरिह पारिभाषिकः स्वतन्त्रस्य प्रयोजकस्ततो यद् भयम्, स यस्य भयस्य साक्षाद् हेतुः तद्भयं हेतुभयम्। तत्र वर्तमानस्य <<ञिभी भये>> इत्यस्य धातोर्णौ परतो विभाषाकारादेशो भवति। मुण्डो भापयते, मुण्डो भीषयते। जटिलो भापयते, जटिलो भीषयते। <<भीस्म्योर्हेतुभये>> १.३.६८ इत्यात्मनेपदम्। <<भियो हेतुभये षुक्>> ७.३.४०। स चात्वपक्षे न भवति। लीभियोरीकारप्रश्लेषनिर्देशादीकारान्तस्य भियः षुग् विधीयते। हेतुभय इति किम् ? कुञ्चिकयैनं भाययति। अत्र हि कुञ्चिकातो भयं करणात्, न हेतोर्देवदत्तात्॥
बिभेतेरेच आत्वं च स्यात्प्रयोजकाद्भयं चेत् ॥
<<बिभेतेर्हेतुभये>> - बिभेतेर्हेतुभये । 'आदेच उपदेशे' इत्यत एचेति,आदिति चानुवर्तते । 'वभाषा लीयते' रित्यतो विभाषेति,चिस्फुरो॑रित्यतो णाविति च । हेतुभयं - प्रयोजकाद्भयम् । तदाह — बिभेतेरेच इत्यादिना ।