प्रजने वीयतेः

6-1-55 प्रजने वीयते आत् येचः उपदेशे विभाषा णौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णाविति वर्तते। <<वी गतिप्रजनकान्त्यसनखादनेषु>> इत्यस्य धातोः प्रजने वर्तमानस्य णौ परतो विभाषा आकारादेशो भवति। पुरोवातो गाः प्रवापयति, पुरोवातो गाः प्रवाययति। गर्भं ग्राहयतीत्यर्थः। प्रजनो हि जन्मन उपक्रमो गर्भग्रहणम्॥

Siddhanta Kaumudi

Up

अस्यैच आत्वं वा स्याण्णौ प्रजनेऽर्थे । वापयति वाययति वा गाः पुरोवातः । गर्भं ग्राहयतीत्यर्थः । ऊदुपधाया गोहः <{SK2364}> । गूहयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रजने वीयतेः>> - प्रजन वीयतेः । 'आदेच उपदेशे' इत्यस्मादादेचेति,॒चिस्फुरो॑रित्तो णाविति, 'विभाषा लीयतेः' इत्यतो विभाषेति चानुवर्तते । तदाह — अस्यैच इत्यादि ।वीयते॑रिति न स्यना निर्देशः,वी गतिप्रजनस्थानार्जनोपार्जनेषु॑ केचित् । वस्तुतस्तु व्येञो न ग्रहणं, तस्य प्रजनार्थकत्वाऽभावात् , तस्य णौशाच्छासे॑ति पुगपवादयुग्विधानेन व्याययतीति रूपे विशेषाऽभावाच्चेति शब्देन्दुशेखरे प्रपञ्चितम् । गर्भं ग्राहयतीति । पुरोवातकाले गावो गर्भं गृह्णन्तीति प्रसिद्धिः । अथ 'गुहू संवरणे' इत्यस्य गुणनिमित्तेऽजादौ प्रत्यये परे उपधाया ऊत्त्वविधिं स्मारयति — ऊदुपधाया गोह इति । गूहयतीति । लघूपधगुणापवाद ऊत्त्वमिति भावः ।

Padamanjari

Up

हेतुभयमिति।'पञ्चमी भयेन' इति समासः, तदाह -हेतोर्भयमिति। किं पुनस्तत्? इत्याह-स यस्य भयस्येति। स चात्वपक्षे न भवतीति। एकदेशविकृतस्यानन्यट्वात्प्राप्नोति, कुतो न भवति? इत्याह -लीभियोरीकारप्रश्लेषनिर्द्देसादिति।'लीलोर्नुग्लुकौ' इति लियो नुग्विधीयते, यश्च'भियः षुक्' -तावुभावप्याकारान्तयोर्न भवतः, कुतः? लीऐइ भीऐइ इति ईकारप्रश्लेषेणेकारान्तयोर्विधानात्। लीभियोः प्रश्लेषनिर्द्देशादिति वार्तिके सह पाठादिह लियो ग्रहणम् ॥