6-1-54 चिस्फुरोः णौ आत् येचः उपदेशे विभाषा
चिञ् स्फुर इत्येतयोर्धात्वोर्णौ परत एचः स्थाने विभाषा आकारादेशो भवति। चापयति, चाययति। स्फारयति, स्फोरयति॥
आत्वं वा स्यात् ॥
<<चिस्फुरोर्णौ>> - चिस्फुरोर्णौ । 'आदेच उपदेशे' इत्यत आदिति,विभाषा लीयते॑रित्यतो विभाषेति चानुवर्तते इति मत्वा शेषं पूरयति — आत्त्वं वा स्यादिति । चिञो णिचि आत्त्वे चा इ इति स्थिते —