अपगुरो णमुलि

6-1-53 अपगुरः णमुलि आत् येचः उपदेशे विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<गुरी उद्यमने>> इत्यस्य धातोरपपूर्वस्य णमुलि परत एचः स्थाने विभाषा आकार आदेशो भवति। अपगारमपगारम्, अपगोरमपगोरम्। <<आभीक्ष्ण्ये णमुल् च>> ३.४.२२ इति णमुल्। अस्यपगारं युध्यन्ते, अस्यपगोरं युध्यन्त इत्यत्र <<द्वितीयायां च>> ३.४.५३ इति णमुल्॥

Siddhanta Kaumudi

Up

गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते अस्यपगारम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

। यदि गिरतिर्गुरेरर्थे वर्तते, तदायं योगः शक्योऽवक्तम्। कथम् ? गिरेः - अपगारमपगारम्, गुरोः - अपगोरमपगोरम् ॥