विभाषा लीयतेः

6-1-51 विभाषा लीयतेः आत् येचः उपदेशे ल्यपि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ल्यपीति वर्तते, आदेच उपदेश इति च। <<लीङ् श्लेषणे>> इति दिवादिः, <<ली श्लेषणे>> इति क्र्यादिस्तयोरुभयोरपि यका निर्देशः स्मर्यते। लीयतेर्धातोर्ल्यपि चैचश्च विषय उपदेश एवालोऽन्त्यस्य स्थाने विभाषा आकारादेशो भवति। विलाता। विलातुम्। विलातव्यम्। विलाय। विलेता। विलेतुम्। विलेतव्यम्। विलीय॥ निमिमीलियां खलचोः प्रतिषेधो वक्तव्यः॥ ईषन्निमयः। निमयो वर्तते। ईषत्प्रमयः। प्रमयो वर्तते। ईषद्विलयः। विलयो वर्तते। अत्र तु लियो व्यवस्थितविभाषाविज्ञानात् सिद्धम्। एवं च प्रलम्भनशालीनी — करणयोश्च णौ नित्यमात्वं भवति। कस्त्वामुल्लापयते। श्येनो वर्तिकामुल्लापयते॥

Siddhanta Kaumudi

Up

लीयतेरिति यका निर्देशो न तु श्यना ॥ लीलीङोरात्वं वा स्यादेज्विषये ल्यपि च । लेता । लाता । लेष्यते । लास्येत । एज्विषये किम् । लीयते । लिल्ये ।{$ {!1140 व्रीङ्!} वृणोत्यर्थे$} । व्रीयते । विव्रिये । (गणसूत्रम् -) स्वादय ओदितः । तत्फलं तु निष्टानत्वम् ।{$ {!1141 पीङ्!} पाने$} । पीयते ।{$ {!1142 माङ्!} माने$} । मायते । ममे ।{$ {!1143 ईङ्!} गतौ$} । ईयते । अयांचक्रे ।{$ {!1144 प्रीङ्!} प्रीतौ$} । सकर्मकः । प्रीयते । पिप्रिये ॥ अथ परस्मैपदिनश्चत्वारः ।{$ {!1145 शो!} तनूकरणे$} ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषा लीयतेः>> - विभाषा लीयतेः । ननु लीयतेरिति श्यना निर्देशात् 'लीङ् श्लेषणे' इति स्नाविकरणस्य ग्रहणं न स्यादित्यत आह — यका निर्देश इति ।सार्वधातुके य॑गिति विहितयका लीयतेरिति निर्देशः । स च श्यन्श्नान्तसाधारणः,यक उभयत्रापि साधारण्यादिति भावः ।मीनातिमिनोती॑त्यतो ल्यपीति, 'आदेचः' इत्यत आदिति, एचेति चाऽनुवर्तते । तदाह — लीलीङोरित्यादिना । स्वादय ओदित इति । धातुपाठपठितं गणसूत्रमिदम् । 'षूङ् प्राणिप्रसवे' इत्यारभ्य व्रीङन्ता ओदित्कार्यभाज इत्यर्थः । निष्ठानत्वमिति ।ओदितश्चे॑त्यनेनेति भावः । प्रीङ् प्रीताविति । प्रीतिस्तुष्टिः ।मुत्प्रीतिः प्रमदो हर्षः॑ इत्यमरः । एवं सत्यकर्मकः । यथा — फलमूलादिना हरिः प्रीयते । ह्मष्यतीत्यर्थः ।यदा तु प्रीतिः तर्पणं, 'प्रीञ् तर्पणे' इति क्रैयादिकात् क्तिनि प्रीतिशब्दनिष्पत्तः, तदा तु सकर्मकः । तदाह — सकर्मक इति । प्रीयते इति । तर्पयतीत्यर्थः । अथ चत्वारः परस्मैपदिन इति । 'दो अवखण्डने' इत्यन्ता इति भावः । शो तनूकरणे । अनिट् ।

Padamanjari

Up

तयोरुबयोरपि यकाऽयं निर्द्देशः क्रियते इति। यदि तु दैवादिकस्यैव श्यना निर्द्देशः क्रियेत,'लीङ्ः' इत्येव ब्रूयादिति भावः। शितपः शित्करणसामर्थ्याच्चाबावकर्मवाचित्वेऽपि यग् भवति, यथा -अकर्तृवाचित्वशबादयः -ठ्भवतेरःऽ इत्यादौ। खलचोरिति। पचाद्यच एरचश्च सामान्येन ग्रहणम्। एवं चेति। व्यवस्थितविभाषाविज्ञानादेवेत्यर्थः। उल्लापयत इति।'लियः सम्माननशालीनीकरणयोश्च' इत्यात्मनेपदम् ॥