6-1-50 मीनातिमीनोतिदीङां ल्यपि च आत् येचः उपदेशे
आदेच उपदेश इति वर्तते। <<मीञ् हिंसायाम्>> <<डुमिञ् प्रक्षेपणे>> <<दीङ् क्षये>> इत्येतेषां धातूनां ल्यपि विषये, चकारादेचश्च विषये,उपदेश एव प्राक्प्रत्ययोत्पत्तेः <<अलोऽन्त्यस्य>> १.१.५२ स्थान आकारादेशो भवति। प्रमाता। प्रमातव्यम्। प्रमातुम्। प्रमाय। निमाता। निमातव्यम्। निमातुम्। निमाय। उपदाता। उपदातव्यम्। उपदातुम्। उपदाय। उपदेश एवात्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति, आकारान्तलक्षणश्च भवति। उपदायो वर्तते, ईषदुपदानमिति घञ्युचौ भवतः॥
एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः ।{$ {!1135 डीङ्!} विहायसा गतौ$} । डीयते । डिड्ये ।{$ {!1136 धीङ्!} आधारे$} । धीयते । दिध्ये । धेता ।{$ {!1137 मीङ्!} हिंसायाम्$} । हिंसात्र प्राणवियोगः । मीयते ।{$ {!1138 रीङ्!} श्रवणे$} । रीयते ।{$ {!1139 लीङ्!} श्लेषणे$} ॥
एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते। दाता। दास्यति। <<स्थाघ्वोरित्त्वे दीङः प्रतिषेधः>> (वार्त्तिकम्) । अदास्त॥ {$ {! 16 डीङ् !} विहायसा गतौ $} (धातुपाठे <{04.0030}>) ॥ डीयते। डिड्ये। डयिता॥ {$ {! 17 पीङ् !} पाने $} (धातुपाठे <{04.0036}>) ॥ पीयते। पेता। अपेष्ट॥ {$ {! 18 माङ् !} माने $} (धातुपाठे <{04.0037}>) ॥ मायते। ममे ॥ {$ {! 19 जनी !} प्रादुर्भावे $} (धातुपाठे <{04.0044}>) ॥
<<मीनातिमिनोतिदीङां ल्यपि च>> - मीनातिमिनोति ।आदेच उपदेशेऽशिती॑त्यताअदित्यनुवर्तते । तदाह — एषामात्त्वं स्याल्ल्यपीति । चकारात् एचः, अशितीति परनिमित्तं समुच्चीयते । तत्रएचट इत्यनन्तरं 'निमित्ते' इति शेषः । एज्निमित्ते अशिति प्रत्यये च परे इति फलितम् । तदाह — अशित्येज्निमित्ते इति । 'इति समुच्चीयते' इति शेषः । लुङ्याह - अदास्तेति । इह आत्त्वे कृते घुत्वे सत्यपि स्थाध्वोरिच्चेति न भवति,स्थाध्वोरित्त्वे दीङः प्रतिषेधः॑ इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तकादिति भावः । धीङ् आधारे इति । आधारः — आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषणे इति । लीयते । लिल्ये ।लिल्यिषे । [लिल्यिढ्वे । लिल्यिध्वे] ।