सिध्यतेरपारलौकिके

6-1-49 सिध्यतेः अपारलौकिके आत् येचः उपदेशे णौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

णाविति वर्तते। <<षिधु हिंसासंराध्योः>> इत्यस्य धातोरपारलौकिकेऽर्थे वर्तमानस्यैचः स्थाने णौ परत आकारादेशो भवति। अन्नं साधयति। ग्रामं साधयति। अपारलौकिक इति किम् ? तपस्तापसं सेधयति। स्वान्येवैनं कर्माणि सेधयन्ति । अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते। तापसः सिध्यति ज्ञानविशेषमासादयति। तं तपः प्रयुङ्क्ते। स च ज्ञानविशेष उत्पन्नः परलोके जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति। इह कस्माद् न भवति — अन्नं साधयति, ब्राह्मणेभ्यो दास्यामीति ? सिध्यतेरत्रार्थो निष्पत्तिः। तस्याः प्रयोजनमन्नम्। तस्य यद् दानं तत् पारलौकिकम्, न पुनः सिद्धिरेवेति न आत्वं पर्युदस्यते। साक्षात् परलोकप्रयोजने च सिध्यर्थे कृतावकाशं वचनमेवंविषयं नावगाहते। सिध्यतेरिति श्यना निर्देशः <<षिधु गत्याम्>> इत्यस्य भौवादिकस्य निवृत्त्यर्थः॥

Siddhanta Kaumudi

Up

ऐहलौकिकेऽर्थे विद्यमानस्य सिध्यतेरेच आत्वं स्याण्णौ । अन्नं साधयति । निष्पादयतीत्यर्थः । अपारलौकिके किम् । तापसः सिद्ध्यति । तत्त्वं निश्चिनोति । तं प्रेरयति सेधयति तापसं तपः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उपदेश एवात्वविधानाल्ल्यपः परत्वासम्भवाल्ल्यपीति विषयसप्तमीत्याह -ल्यपि विषय इति। एकाच्चेति। यद्यपि प्रकृतिविशेषणं प्रागासीत्, तथापीहोपदेशाधिकारान्मीनात्यादीनां चोपदेश एजन्तत्वासम्भवात्सामर्थ्यादेव इत्येतदपि विषयविशेषणं विज्ञायत इत्याह -एचश्च विषय इति। यत्र प्रत्यये एज्भावी तस्मिन्बुद्धिस्थ इत्यर्थः। उपदेश एवेत्यस्य विवरणम् -प्राक् प्रत्ययोत्पतेरिति। उपदेश एवात्वविधाने योऽर्थः सम्पद्यते तं दर्शयति -उपदेश एवात्वविधानादिति। इवर्णान्तलक्षणः प्रत्यय एरच्, आकारान्तलक्षणस्तु घञ्। यद्यपि घञाकारान्तादिति नोच्यते, तथाप्यत्रात्वे सति भवति, असति तु न भवतीत्येतावता घञ आकारान्तलक्षणत्वम्। उपदायो वर्तत इति।'घञि ठातो युक् चिण्कृतोः' इति युक्। ईषदुपदानमिति खलर्थे ठातो युच्ऽ। मीनातिमिनोत्येस्तु खलचावेव भवत;'निमीमिलियां खलचोः प्रतिषेधः' इति वक्ष्यमाणत्वात्। अतो दी॥।वोदाहृतः ॥