क्रीङ्जीनां णौ

6-1-48 क्रीङ्जीनां णौ आत् येचः उपदेशे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<डुक्रीञ् द्रव्यविनिमये>> <<इङ् अध्ययने>> <<जि जये>> इत्येतेषां धातूनामेचः स्थाने णौ परत आकारादेशो भवति। क्रापयति। अध्यापयति। जापयति॥

Siddhanta Kaumudi

Up

एषामेच आत्वं स्याण्णौ । क्रापयति । अध्यापयति । जापयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<क्रीङ्जीनां णौ>> - क्रीङ्जीनां णौ ।डु क्रीञ् द्रव्यविनिमये,इङ् अध्ययने॑, 'जि जये' एषां द्वन्द्वः । एच आत्त्वमिति । 'आदेच उपदेशे' इत्तस्तदनुवृत्तेरिति भावः । क्रापयति जापयतीति । आत्त्वे पुक् लुङि अचिक्रपत् अजीजपत् । अध्यापयतीति । इङ आत्त्वे पुकि रूपम् । अधि इ इ अ त् इति स्थिते ।

Padamanjari

Up

परलोकः प्रयोजनमस्य तत्पारलौकिकम्'प्रयोजनम्' इति ठक्, अनुशतिकादित्वादुभयपदवृद्धिः। ज्ञनविशेषे वर्तत इति। हेयोपादेयतत्वावबोधःउज्ञानविशेषः। तापसः सिध्यतीति। हेयमुपादेयं च तत्वतो ज्ञातुकामः प्रवर्त त इत्यर्थः। तदाह - ज्ञानविशेषमासादयतीति। तपः प्रयुङ्क्ते इति। ज्ञानविशेषवन्तं करोतीत्यर्थः। परलोक इत्यस्य विवरणम्-जन्मान्तर इति। इह वा भवतु, स्वर्गादौ वा, शरीरान्तरोपलक्षणार्थं पारलौकिकग्रहणमिति। उपसंहरन्निति। हेतौ शतृप्रत्ययः। इह कस्मादिति। ब्राह्मणेभ्यो दास्यामीत्यनेनाभिप्रायेणानुष्ठितो धात्वर्थः परलोकप्रयोजनो भवतीति प्रश्नः। सिद्ध्यतेरर्थ इत्यादिना ऐहलौकिकत्वं धात्वर्थस्य दर्शयति। तस्यप्रयोजनमिति। तदुद्दिश्य प्रवृतत्वात्। पुनः सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिःउ सिद्धिरेवेति। पारलौकिकीति लिङ्गविपरिणामेन सम्बन्धनीयम्। सिद्धिःउनिष्पतिः। यस्यां सिद्धौ धातुर्वर्तते सा च पारलौकिकी न भवति, तस्मादात्वं न पर्युदस्यते। साक्षादिति। यदि साक्षादव्यवधानेन पारलौकिको यः सिद्ध्यतेरर्थस्तत्र पर्युदासो न चरितार्थः स्यातदा पारम्पर्याश्रयणम्। इदं तु साक्षात्परलोकार्थे ज्ञानविशेषे चरितार्थम्, अतो नैवंविधे विषये प्रवर्तते इत्यर्थः ॥