6-1-47 स्फुरतिस्फुलत्योः घञि आत् येचः उपदेशे
आदेच इति वर्तते। <<स्फुर स्फुल चलने>> इत्येतयोर्धात्वोरेचः स्थाने घञि परत आकारादेशो भवति। विस्फारः। विस्फालः। विष्फारः। विष्फालः। <<स्फुरतिस्फुलत्यो — र्निर्निविभ्यः>> ८.३.७६ इति वा षत्वम्॥
अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । उपसर्गस्य घञि-<{SK1044}> इति दीर्घः । परीहारः । इकः काशे <{SK1045}> काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः ।नोदात्तोपदेश <{SK2763}> इति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥
यद्यपि करोतेः ठीङ् गतौऽ इत्येतस्य यणादेशे ङिति रूपं सम्भवतति, तथापि ठेचःऽ इत्यधिकारात्करोतेस्तावद् ग्रहणं न सम्भवति। तथा ईङेऽपि ग्रहणं न भवति, ह्रस्वान्तेन परेण जयतिना साहचर्यात् ॥