6-1-46 नव्यः लिटि आत् येचः उपदेशे
index: 6.1.46 sutra: न व्यो लिटि
व्येञित्येतस्य धातोः लिटि परत आकारादेशो न भवति। संविव्याय। सविव्ययिथ। लिट्यभ्यासस्य उभयेषाम् 6.1.17 इति अभ्यासस्य सम्प्रसारणम्। णलि अचो ञ्णिति 7.2.115 इति वृद्धिः।
index: 6.1.46 sutra: न व्यो लिटि
व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इडत्त्यर्ति -<{SK2384}> इति नित्यमिट् । विव्ययिथ । विव्याय । विव्यच । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ।{$ {!1008 ह्वेञ्!} स्पर्धायां शब्दे च$} ॥
index: 6.1.46 sutra: न व्यो लिटि
न व्यो लिटि - तत्राह — न व्यो लिटि । 'व्ये' इत्यस्य कृतात्त्वस्य षष्ठन्तस्य 'व्य' इति निर्देशः । आत्त्वमिति । 'आदेच उपदेशे' इत्यत आदित्यनुवृत्तेरिति भावः । वृद्धिरिति । णलि व्ये अ इति स्थितेअचो ञ्णिती॑ति वृद्धिरित्यर्थः । तथा च व्यै-अ इति स्थितम् । ननु तत्र द्वित्वेलिटभ्यासस्ये॑त्यभ्यासे यकारस्य संप्रसारमे पूर्वरूपे उत्तरखण्डस्य आयादेशेविव्याये॑ति रूपं वक्ष्यति, तदयुक्तं, संप्रसारणात्प्राक् परत्वाद्धलादिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह — परमपीति । उभयेषामिति ।लिटभ्यासस्ये॑ति सूत्रेउभयेषा॑मिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति — अन्यथेति ।वचिस्वपियजादीना॑मित्यस्य,ग्रहिज्यावयिव्यधिविष्टिविचतिवृश्चतिपृच्छतिभृज्जतीना॑मित्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुन॒र्लिटभ्यासस्ये॑त्यत्रउभयेषां॑ग्रहणं पुनर्विधानार्थम् । तथा च वच्यादीनां ग्रह्रादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटीति द्विर्विधानं लब्धम् । तत्र द्वितीयं विधानं नियमार्थम् — ॒उभयेषामभ्यासस्य संप्रसारणमेव स्यान्नेतर॑दिति । तेनाभ्यासे एतत्संप्रसारणविषये कार्यान्तरनिवृत्तिः सिद्धेत्यर्थः । तथा च प्रकृतेऽभ्यासयकारस्य संप्रासरणे सिद्धं रूपमाह — विव्यतुः विव्युरिति ।वचिस्वपी॑ति संप्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्क्याह — इडत्त्यर्तीति । विव्ययिथेति । अकित्त्वादभ्यासस्य संप्रसारणमिति भावः । विव्यथुः विव्य । विव्याय विव्ययेति । अकित्त्वादभ्यासस्य संप्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः । विव्यिव विव्यिम । विव्ये इति । कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेवी॑त्यस्य द्वित्वे यणिति भावः । विव्याते विव्यिरे । विव्यिषे विव्याथे [विव्यिढ्वे] विव्यिध्वे । विव्ये विव्यिवहे विव्यिमहे । व्यातेति । तासि एकारस्य आत्त्वम् । व्यास्यति व्यास्यते । व्ययतु व्ययताम् । अव्ययत् अव्ययत । व्ययेत् व्ययेत । वीयादिति । आशीर्लिङि सीयुटि आत्त्वम् । अव्यासीदिति । लुङि सिचि आत्त्वे इट्सकोः सिज्लोपः । अव्यासिष्टामित्यादि । स्यत । ह्वेञ्धातुरनिट् । ञित्त्वादुभयपदी । शब्दे चेति । आकारणार्थःआगच्छे॑त्यादशब्दोऽत्र विवक्षितः । ह्वयति ह्वयते इति । शपि अयादेशः । णलादौ अकितिलिटभ्यासस्ये॑ति अभ्यासस्यैव संप्रसारणे प्राप्ते —
index: 6.1.46 sutra: न व्यो लिटि
कित्यात्वे सत्यसति वा विशेषाभावात्पित्युदाहरणमेतस्य वृत्तिकारेण दर्शितम्। थलि ठिडत्यर्तिव्ययतीनाम्ऽ इतीट ॥