विभाषा परेः

6-1-44 विभाषा परेः सम्प्रसारणम् सम्प्रसारणम् ल्यपि व्यः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ल्यपि च व्यश्चेत्यनुवर्तते। परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति। परिवीय यूपम्, परिव्याय। संप्रसारणे कृते परपूर्वत्वे <<ह्रस्वस्य०>> ६.१.७१ इति तुक् प्राप्नोति, स <<हलः>> ६.४.२ इति दीर्घत्वेन परत्वाद् बाध्यते॥

Siddhanta Kaumudi

Up

परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-<{SK2559}> इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up