वेञः

6-1-40 वेञः सम्प्रसारणम् सम्प्रसारणम् लिटि

Kashika

Up

index: 6.1.40 sutra: वेञः


लिटि इत्यनुवर्तते। वेञ् तन्तुसन्ताने इत्यस्य धातोः लिति परतः सम्प्रसारणं न भवति। ववौ, ववतुः, ववुः। किति यजादित्वात् धातोः प्राप्तमकित्यपि लिट्यभ्यासस्य उभयेषाम् 6.1.17 इत्यभ्यासस्य, अतः उभयं प्रतिषिध्यते।

Siddhanta Kaumudi

Up

index: 6.1.40 sutra: वेञः


वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् ।{$ {!1007 व्येञ्!} संवरणे$} । व्ययति ॥

Balamanorama

Up

index: 6.1.40 sutra: वेञः


वेञः - वेञः । 'लिटि वयो यः' इत्यतो लिटीति,न संप्रसारणे संप्रसारण॑मित्यतो न संप्रसारणमिति चानुवर्तते ।तदाह — वेञो नेति । अत्र कितीति नानुवर्तते । तदाह — ववाविति । णलि संप्रसारणनिषेधे 'आदेच उपदेशे' इत्त्यात्वे 'आत औ णलः' इत्यौभावेवृद्धिरेची॑ति वृद्धौ रूपम् । ववतुरिति । 'आदेचः' इत्यात्त्वेआतो लोपः॑ । एवं ववुः । भारद्वाजनियमात्थलि वेट्, वेञस्तासावनिट्कत्वात् । तदाह — वविथ ववाथेति । इट्पक्षे अकित्त्वेऽपि इट्परत्वादाल्लोप इति भावः । ववथुः वव । ववौ वविव वविम । क्रादिनियमादिट् । ववे इति । ववाते वविरे । वविषे ववाथे [वविढ्वे] । वविध्वे । ववे वविवहे वविमहे । वातेति । लुटि तासि आत्त्वम् । वास्यति वास्यते । वयतु वयताम् । अवयत् अवयत । वयेत् वयेत । ऊयादिति । आशीर्लिङि यासुटि कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्ग इति भावः । वासीष्टेति । आशीर्लिङि आत्मनेपदे, सीयुटि आत्त्वे रूपम् । वासीयास्ताम् । अवासीदिति । आत्त्वे कृते इट्पकौ । अवास् इ स् ईदिति स्थितेइट ईटी॑ति सिज्लोपः । अवासिष्टामित्यादि । आत्मनेपदे — अवास्त अवासातामित्यादि । अवास्यत् अवास्यत । व्येञ् संवरणे इति । ञित्त्वादुभयपदी । अनिट् । व्ययति व्ययते इति । शपि अयादेशः । णलादौ तु आत्त्वे विव्यौ विव्यतुरित्यादि प्राप्तम् ।

Padamanjari

Up

index: 6.1.40 sutra: वेञः


पूर्वं वश्चास्यग्रहणे क्रियमाणे'ल्यपि व्यो ज्यश्च' इति एकयोग एव कर्तव्यः, एवं हि द्विश्चकारोऽपि न कर्तव्यो भवति ॥