6-1-39 वः च अस्य अन्यतरस्यां किति सम्प्रसारणम् न सम्प्रसारणम् लिटि
अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवत्यन्यतरस्याम्। ऊवतुः, ऊवुः। ऊयतुः, ऊयुः। कितीति किम् ? उवाय। उवयिथ॥
वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥
<<वश्चास्यान्यतरस्याम् किति>> - वश्चास्या । 'लिटि वयो यः' इत्यनुवर्तते । तदाह — वयोयस्येत्यादि । उवयिथेति । अकित्त्वान्न वः । अजन्तत्वादकारवत्त्वाच्च थलि इड्विकल्पमाशङ्क्याह — वयेस्तासावभावात्थलि नित्यमिडिति । वयेर्लिटएव विहितत्वेन तासावभवात्अचस्तास्व॑दिति 'उपदेशेऽत्वतः' इति च इण्निषेधऽप्रसक्त्या क्रादिनयिमान्नित्यनिडित्यर्थः ।यस्तासावस्ति नित्याऽनिट् चे॑ति भाष्यम् । ऊयथुः- ऊवथुः ऊय-ऊव । उवाय, उवय, ऊयिव-ऊविव, ऊयिम — ऊविम । ननु वयेरञित्त्वात्कथमुभयपदत्वमित्यत आह — स्थानिवद्भावेनेति । ऊये ऊवे इति ।वश्चास्यान्यतरस्या॑मिति वत्वविकल्पः । वत्वाऽभावे 'लिटि वयो यः' इति यकारस्य संप्रसारणनिषेधः । वकारस्यग्रहिज्ये॑ति,वचिस्वपी॑ति वा संप्रसारणम् । ऊयाते ऊयिरे । ऊयिषे ऊयाथे [ऊयिढ्वे] ऊयिध्वे । ऊये उयिवहे ऊयिमहे । क्रादिनियमादिट् । एवम् ऊवाते ऊविरे इत्यादि । वयादेशाऽभावे इति । यजादित्वात्लिटभ्यासस्ये॑तिवचिस्वपी॑ति च संप्रसारणे प्राप्ते सती॑ति शेषः ।
अस्यग्रहणेन वयो यकारः प्रतिनिर्द्दिश्यते, अन्यथादेशाकारस्योच्चारणार्थत्वे प्रमाणाभावाद्वय एवायं सर्वादेशः सम्भाव्येत। अस्यग्रहणे तु सति यद्यष्यकारवानादेशः तथाप्यतो लोपेन सिद्धमिष्टम्। वश्चास्यग्रहणं शक्यमकर्तुम्। कथम्? ठन्यतरस्यां किति वेञःऽ इति सूत्रं कर्तव्यम्, लिटीत्येव, किति लिटि परतो वेञः सम्प्रसारणं न भवत्यन्यतरस्याम् -ववतुः, ववुः; सम्प्रसारणपक्षे उपङदेशे सति द्विर्वचनम्, सवर्णदीर्घत्वम् -ऊचतुः, ऊचुः;'वेञो वयिः' -ऊयतुः ऊयुरिति। कथं ववौ, वविथ?'ल्यपि च' इति चकारेण लिडनुकृष्यते, तत्पिति नित्यनिषेधार्थं भविष्यति ॥