6-1-41 ल्यपि च सम्प्रसारणम् न सम्प्रसारणम् वेञः
वेञ इत्यनुवर्तते। ल्यपि च परतो वेञः संप्रसारणं न भवति। प्रवाय। उपवाय। पृथग्योगकरणमुत्तरार्थम्॥
वेञो ल्यपि सम्प्रसारणं न स्यात् । प्रवाय ॥