लिटि वयो यः

6-1-38 लिटि वयः यः सम्प्रसारणम् सम्प्रसारणम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

न संप्रसारणमित्यनुवर्तते। लिटि परतो वयो यकारस्य संप्रसारणं न भवति। उवाय, ऊयतुः, ऊयुः। लिड्ग्रहणमुत्तरार्थम्॥

Siddhanta Kaumudi

Up

वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लिटि वयो यः>> - लिटि वयो । संप्रसारणं नेति ।न संप्रसारणे संप्रसारण॑मित्यतस्तदनुवृत्तेरिति भावः । तथा च यकारस्य संप्रसारणनिषेधे वकारस्य संप्रसारणमिति भावः । तदाह — ऊयतुरिति ।

Padamanjari

Up

लिङ्ग्रहणमुतरार्थमिति। नेहार्थं लिटः; अन्यत्र वयादेशस्यासम्भवात् ॥