6-1-36 अपस्पृधेथाम् आनृचुः आनृहुः चिच्युषे तित्याज श्राताः श्रितम् आशीर् आशीर्त्ताः सम्प्रसारणम् छन्दसि
छन्दसीति वर्तते। अपस्पृधेथामिति <<स्पर्ध संघर्षे>> इत्यस्य लङि आथामि द्विर्वचनं रेफस्य संप्रसारणमकारलोपश्च निपातनात्। इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथाम् (ऋ० ६.६९.८)। अस्पर्धेथामिति भाषायाम्। अपर आह — स्पर्धेरपपूर्वस्य लङ््याथामि संप्रसारणमकारलोपश्च निपातनात्। <<बहुलं छन्दस्यमाङ्योगेऽपि>> ६.४.७५ इत्यडागमाभावः। अत्र प्रत्युदाहरणमपास्पर्धेथामिति भाषायाम्। आनृचुरानृहुरिति। <<अर्च पूजायाम्>> <<अर्ह पूजायाम्>> <<अर्ह पूजायाम्>> इत्यनयोर्धात्वोर्लिट्युसि संप्रसारणमकारलोपश्च निपातनात्। ततो द्विर्वचनमुरदत्वम् <<अत आदेः>> ७.४.७० इति दीर्घत्वम्। <<तस्मान्नुड् द्विहलः>> ७.४.७१ इति नुडागमः। य उ॒ग्रा अ॒र्कमा॑नृ॒चुः (ऋ० १.१९.४)। न वसू॑न्यानृ॒हुः (शौ० सं० २.३५.१)। आनर्चुः, आनर्हुरिति भाषायाम्। चिच्युषे। <<च्युङ् गतौ>> इत्यस्य धातोर्लिटि सेशब्देऽभ्यासस्य संप्रसारणमनिट् च निपातनात्। चिच्यु॒षे (ऋ० ४.३०.२२)। चुच्युविष इति भाषायाम्। तित्याज। <<त्यज हानौ>> इत्यस्य धातोर्लिट्यभ्यासस्य संप्रसारणं निपात्यते। ति॒त्याज॑ (ऋ० १०.७१.६)। तत्याजेति भाषायाम्। श्राता इति। <<श्रीञ् पाके>> इत्येतस्य धातोर्निष्ठायां श्राभावः। श्रा॒ता॑स्त॒ इन्द्र॒ सो॑माः॒ (मै० सं० १.९.१)। श्रितमिति। तस्यैव श्रीणातेर्ह्रस्वत्वम्। सोमो॑ गौ॒री अधि॑श्रि॒तः (ऋ० ९.१२.३)। श्रिता नो गृहाः। अनयोः श्राभावश्रिभावयोर्विषयविभागमिच्छन्ति — सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभाव इति। सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते। यदि॑ श्रा॒तो जु॒होत॑न॒ (ऋ० १०.१७९.१)। तस्य श्राता इति बहुवचनस्या — विवक्षितत्वादुपसंग्रहो द्रष्टव्यः। आशीराशीर्त इति। तस्यैव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनात्। तामाशीरा दुहन्ति। आशीर्त ऊर्जम्। क्षी॒रैर्म॑ध्य॒त आशी॑र्तः (ऋ० ८.२.९)॥
एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेयाम् (इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेयाम्) । स्पर्धेर्लङि आथाम् । अर्कमानृचुः (अ॒र्कमा॑नृ॒चुः) । वसून्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे (चि॒च्युषे॑) । च्युङो लिटि थासि । यस्तित्याज (यस्ति॒त्याज॑) । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः (श्रा॒तास्त॑ इन्द्र॒ सोमाः॑) । श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे (आ॒शीरं॑ दु॒हे) । मध्यत आशीर्तः (म॒ध्य॒त आशी॑र्तः) । श्रीञ् एव क्विपि निष्ठायां च ॥
अपर आहेति। कस्याञ्चिच्छाखायामपस्पृधेथामित्याद्यौदातं पठ।ल्ते, अन्यस्यां तु पदद्वयम्, उभयमप्यनेन निपातनेन संगृह्यते। तत्रैकपद्ये'तिङ्ङतिङः' इति निघातः प्राप्तः,'यद्वृतान्नित्यम्' इति प्रतिषिद्धः। तत्राट्स्वरेणाद्यौदातं पदं भवति। यदा तु द्वे पदे, तदा निघातप्रतिषेधे'तास्यनुदातेत्' इति लसार्वधातुकानुदातत्वे धातुस्वरेण स्पृधेथामिति पदमाद्यौदातम्'तिङ् चोदातिवति' इत्यपशब्दस्य निघातः। बहुवचनस्याविवक्षितत्वादिति। सोमस्यैव बहुत्वे श्राभाव इति नियमानाश्रयणाच्च, अन्यथा बहुत्वातविवक्षायामपि सोमादन्यत्र श्राभावो न स्याद् विषयविभागवादितनाम् ॥