अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः

6-1-36 अपस्पृधेथाम् आनृचुः आनृहुः चिच्युषे तित्याज श्राताः श्रितम् आशीर् आशीर्त्ताः सम्प्रसारणम् छन्दसि

Kashika

Up

index: 6.1.36 sutra: अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः


छन्दसि इति वर्तते। अपस्पृधेथाम् इति स्पर्ध सङ्घर्षे इत्यस्य लङि आथामि द्विवर्चनं रेफस्य संप्रसारणमकारलोपश्च निपातनात्। इन्द्रश्च विष्णो यदपस्पृधेथाम्। अपस्पर्धेथाम् इति भाषायाम्। अपर आह स्पर्धेः अपपूर्वस्य लिङि आथामि सम्प्रसरणमकारलोपश्च निपातनात्। बहुलं छन्दस्यमाङ्योगेऽपि 6.4.75 इत्यडागमाभावः। अत्र प्रत्युदाहरणमपास्पर्धेथाम् इति भषायाम्। आनृचुः, आनृहुः इति। अर्च पूजायाम्, अर्ह पूजायम् इत्यनयोर्धात्वोलिट्युसि सम्प्रसारणमकारलोपश्च निपातनात्। ततो द्विर्वचनम्, उरदत्वम्, अत आदेः 7.4.70 इति दीर्घत्वम्। तस्मान् नुड् द्विहलः 7.4.71 इति नुडागमः। य उग्रा अर्कमानृचुः। न वसून्यानृहुः। आनर्चुः, आनर्हुः इति भाषायाम्। चिच्युषे। च्युङ् गतौ इत्यस्य धातोः लिति सेशब्दे अभ्यासय सम्प्रसारणमनिट् च निपातनात्। चिच्युषे। चुच्युविषे इति भाषायाम्। तित्याज। त्यज हानौ इत्यस्य् धातोः लिटि अभ्यासस्य सम्प्रसारणं निपात्यते। तित्याज। तत्याज इति भाषायाम्। श्राताः इति। श्रीञ् पाके इत्येतस्य धातोः निष्ठायां श्राभावः। श्रातास्त इन्द्रसोमाः। श्रितम् इति तस्य एव श्रीणातेः ह्रस्वत्वम्। सोमो गौरी अधिश्रितः। श्रिता नो गृहाः। अनयोः श्राभावश्रिभावयोर्विषयविभागम् इच्छति, सोमेषु बहुषु श्राभाव एव, अन्यत्र श्रिभावः इति। सोमादन्यत्र क्वचिदेकस्मिन्नपि श्राभावो दृश्यते। यदि श्रातो जुहोतन। तस्य श्राताः इति बहुवचनस्य अविवक्षितत्वादुपसंग्रहो द्रष्टव्यः। आशीः, आशीर्तः इति। तस्य एव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः, निष्ठायाश्च नत्वाभावो निपातनात्। तामाशीरा दुहन्ति। आशीर्त ऊर्जम्। क्षीरैर्मध्यत आशीर्तः।

Siddhanta Kaumudi

Up

index: 6.1.36 sutra: अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः


एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेयाम् (इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेयाम्) । स्पर्धेर्लङि आथाम् । अर्कमानृचुः (अ॒र्कमा॑नृ॒चुः) । वसून्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे (चि॒च्युषे॑) । च्युङो लिटि थासि । यस्तित्याज (यस्ति॒त्याज॑) । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः (श्रा॒तास्त॑ इन्द्र॒ सोमाः॑) । श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे (आ॒शीरं॑ दु॒हे) । मध्यत आशीर्तः (म॒ध्य॒त आशी॑र्तः) । श्रीञ् एव क्विपि निष्ठायां च ॥

Padamanjari

Up

index: 6.1.36 sutra: अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्ताः


अपर आहेति। कस्याञ्चिच्छाखायामपस्पृधेथामित्याद्यौदातं पठ।ल्ते, अन्यस्यां तु पदद्वयम्, उभयमप्यनेन निपातनेन संगृह्यते। तत्रैकपद्ये'तिङ्ङतिङः' इति निघातः प्राप्तः,'यद्वृतान्नित्यम्' इति प्रतिषिद्धः। तत्राट्स्वरेणाद्यौदातं पदं भवति। यदा तु द्वे पदे, तदा निघातप्रतिषेधे'तास्यनुदातेत्' इति लसार्वधातुकानुदातत्वे धातुस्वरेण स्पृधेथामिति पदमाद्यौदातम्'तिङ् चोदातिवति' इत्यपशब्दस्य निघातः। बहुवचनस्याविवक्षितत्वादिति। सोमस्यैव बहुत्वे श्राभाव इति नियमानाश्रयणाच्च, अन्यथा बहुत्वातविवक्षायामपि सोमादन्यत्र श्राभावो न स्याद् विषयविभागवादितनाम् ॥