6-1-35 चायः की सम्प्रसारणम् छन्दसि
बहुलं छन्दसीति वर्तते। चायतेर्धातोश्छन्दसि विषये बहुलं कीत्ययमादेशो भवति। वि॒यन्ता॒ न्य१॒॑न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् (ऋ० १.१६४.३८)। लिट्युसि रूपम्। न भवति — अ॒ग्निर्ज्योति॑र्नि॒चाय्य॑ (मा० सं० ११.१)॥
न्यंन्यं चिक्युर्न निचिक्युरन्यम् (न्यं1न्यं चि॒क्युर्न निचि॑क्युर॒न्यम्) । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अग्निं ज्योतिर्निचाय्य (अ॒ग्निं ज्योति॒र्नि॒चाय्य॑) ॥