बहुलं छन्दसि

6-1-34 बहुलं छन्दसि ह्वः सम्प्रसारणम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ह्व इति वर्तते। छन्दसि विषये ह्वयतेर्धातोर्बहुलं संप्रसारणं भवति। इ॒न्द्रा॒ग्नी...हु॒वे (ऋ० ५.४.६.३)। देवीं सरस्वतीं हुवे। ह्वेञो लट्यात्मनेपदोत्तमैकवचने <<बहुलं छन्दसि>> २.४.७३ इति शपो लुकि कृते संप्रसारणमुवङादेशश्च। न च भवति — ह्वयामि मरुतः शिवान्। ह्वया॑मि (विश्वान्)दे॒वान् (ऋ० ७.३.४.८)॥

Siddhanta Kaumudi

Up

ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये (इन्द्र॒माहु॑व ऊ॒तये॑) ।<!ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि !> (वार्तिकम्) ॥ ऋच्शब्दे परेत्रेः संप्रसारणुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम । त्र्यृचानि ।<!रयेर्मतौ बहुलम् !> (वार्तिकम्) ॥ रेवान् । रयिमान्पुष्टिबर्धनः (रयि॒मान्पु॑ष्टि॒बर्ध॑नः) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up