णौ च संश्चङोः

6-1-31 णौ च संश्चङोः सम्प्रसारणं विभाषा श्वेः

Kashika

Up

index: 6.1.31 sutra: णौ च संश्चङोः


विभाषा श्वेः 6.1.30 इति वर्तते। सन्परे चङ्परे च णौ परतः श्वयतेर्धातोः विभाषा सम्प्रसारणं भवति। शुशावयिषति। चङि अशूशवत्, अशिश्वयत्। सम्प्रसारणं सम्प्रसारणाश्रयं च बलीयो भवतीति वचनादन्तरङ्गमपि वृद्ध्यादिकं सम्प्रसारणेन बाध्यते। कृते तु संप्रसारणे वृद्धिरावादेशश्च। ततः ओः पुयण्ज्यपरे 7.4.80 इत्येतद् वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्य, इति स्थानिवद्भावात् शुशब्दो द्विरुच्यते।

Siddhanta Kaumudi

Up

index: 6.1.31 sutra: णौ च संश्चङोः


सन्परे चङ्परे च णौ श्वयतेः संप्रसारणं वा स्यात् । [(परिभाषा - ) संप्रसारणं तदाश्रयं च कार्यं बलवद्] इति वचनात् संप्रसारणं पूर्वरूपम् । अशूशवत् । अलघुत्वान्न दीर्घः । अशिश्वयत् ॥

Balamanorama

Up

index: 6.1.31 sutra: णौ च संश्चङोः


णौ च संश्चङोः - णौ च संश्चङोः । 'विभाषा ओ' रिति सूत्रमनुवर्तते ।ष्यङ संप्रसारण॑मिति चातदाह — सन्तपर इत्यादिना । नन्वन्तरङ्गत्वात्संप्रसारणात्पूर्वं वृद्ध्यायादेशयोः कृतयोः पश्चात्संप्रसारणे पूर्वरूपे अशीशवदिति स्यात्, अशूशवदिति न स्यादित्यत आह — संप्रसारण तदाश्रयं चेति । इदं वचनंलिटभ्यासस्ये॑ति सूत्रभाष्ये स्थितम् । एवं च अइआ इ अत् इत्यत्र वृद्ध्यायादेशाभ्यां प्रागेव वकारस्य संप्रसारणमुकार इति फलितम् । पूर्वरूपमिति । ततश्च शु इत्यस्य द्वित्वे उत्तरखण्डस्य णिचमाश्रित्य वृद्ध्यावादेशयोरुपधाह्रस्वे सन्वत्त्वविषयत्वादभ्यासदीर्घे फलितमाह — अशूशवदिति । संप्रसारणाऽभावपक्षे अशिआयदित्यत्र अभ्यास्दीर्घमाशङ्क्य आह — अलघुत्वादिति । संयोगापरकत्वादिति भावः । अवपूर्वात्स्तम्भेण्र्यन्तादवष्टम्भयतीत्यादि ।अवाच्चालम्बनादविदूर्ययो॑रिति षत्वम् । चङि अवातस्तम्भदित्यत्र षत्वे प्राप्ते —

Padamanjari

Up

index: 6.1.31 sutra: णौ च संश्चङोः


'णौ' इतिक श्वयत्यपेक्षया परस्प्तमी,'संश्चङेः' इति ण्यपेक्षया। तदाह - सन्परे चङ्परे च णौ परत इति। अन्तरङ्गमपीति। अन्तरङ्गत्वं तु णिज्मात्रापेक्षत्वात्। वृद्ध्यादिकमिति। आदिशब्देनायादेशो गृह्यते, यदा तु'संप्रसारणं संप्रसारणाश्रयं च कार्यं बलीयः' इति परिभाषा प्रयोजनाबावात्प्रत्याख्याता, तदा'णौ च संख्चङेर्विषयभूतयोः' इति। ओः पुयण्जीत्यादि। यथा चैतज्ज्ञापकं तथा'द्विर्वचने' चिऽ इत्यत्र प्रतिपादितम्। अत्र स्थानिवद्भावादित्यतः पूर्वम्'द्वितीयो' पिऽ इतिशब्दः पाठयः।'तेन' इति वा पठितव्यम् ॥