6-1-30 विभाषा श्वेः सम्प्रसारणं लिड्यङोः च
index: 6.1.30 sutra: विभाषा श्वेः
लिड्य्ङोः इति वर्तते, सम्प्रसरणम् इति च। लिटि यङि च श्वयतेर्धातोः विभाषा सम्प्रसारणं भवति। शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। यगि शोशूयते, शेश्वीयते। तदत्र यङि सम्प्रसारणमप्राप्तं विभाष विधीयते। लिटि तु किति यजादित्वात् नित्यं प्राप्तं, तत्र सर्वत्रविकल्पो भवति इत्येषा उभयत्रविभाषा। यदा च धातोर्न भवति तदा लिट्यभ्यासस्य उभयेषाम् 6.1.17 इत्यभ्यासस्य अपि न भवति।
index: 6.1.30 sutra: विभाषा श्वेः
श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः ।<!श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः !> (वार्तिकम्) ॥ तेन लिट्याभ्यासस्य - <{SK2408}> इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । जॄस्तम्भु - <{SK2291}> इत्यङ् वा ॥
index: 6.1.30 sutra: विभाषा श्वेः
विभाषा श्वेः - संप्रसारणमिति ।ष्यङ संप्रसारणमित्यतस्तदनुवृत्तेरिति भावः । लिटि यङि चेति ।लिङ्यङो॑रित्यनुवृत्तेरिति भावः । शुशावेति । णलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः । अकित्त्वाद्वचिस्वपीत्यस्य नाऽत्र प्राप्तिः । तथा च लिटकित्स्वेकवचनेषु द्वित्वात्प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः ।शुशुवतु॑रित्यादिद्विवचनबहुवचनेषु तु द्वित्वात्प्राग्वचिसवपीति प्राप्तस्य संप्रसारणसय विकलपविधिः । तथा च उभयत्र विभाषेयम् । यङंशे त्वप्राप्तविभाषैवेयम् — शोशूयते । शेआईयते । तत्र णलि एतत्संप्रसारणाऽभावपक्षेआईत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शुआआय इति प्राप्ते आह — आयतेर्लिटभ्यासलक्षणप्रतिषेध इति । लिटभ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथा चइआ॑इत्यभ्यासस्य संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — जृस्तन्भ्विति । तथा च अइआ अ त् इति स्थिते इयङि प्राप्ते —
index: 6.1.30 sutra: विभाषा श्वेः
शुशावेति। परावपि वृद्ध्यायादेशौ बाधित्वा नित्यत्वात् सम्प्रसारणमन्तरङ्गत्वात्पूर्वत्वम्। शुशुवतुरिति। अत्रापि परत्वात्प्रापमियण्ंó बाधित्वा नित्यत्वात्सम्प्रसारणम्। तत्र कृते परमपि ठेरनेकाचःऽ इति यणं बाधित्वान्तरङ्गत्वात्पूर्वत्वम्, पश्चादुवङदेशः। अन्यत्रेति। पित्सु वचनेषु। तत्र सर्वत्र विकल्प इति। पित्सु तावद्विकल्प्यते; प्रतिषेधकाभावात्। कित्स्वपि परत्वादयं विकल्पः। यजादिलक्षणस्यावकाशः - शूनः, शूनवान्, अस्यावकाशः पिद्ववचनानि; किति लिट।लुभयप्रसंगे परत्वादयं विकल्पः। अब्यासस्यापि न भवतीति। किमिति न भवति? न तावत् परत्वादनेन कल्पेन बाधः, धातोरयं विकल्पः, नाभ्यासस्य। किञ्च - उभयेषांग्रहणस्य स एव विधिर्यथा स्यादिति। तस्माद्वचनमेवात्र शरणम्। यदाह -'स्वेर्लिट।ल्भ्यासलक्षणप्रतिषेधः' इति ॥