लिड्यङोश्च

6-1-29 लिड्यङोः च सम्प्रसारणं प्यायः पी

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विभाषेति निवृत्तम्। प्यायः पीत्येतत् चशब्देनानुकृष्यते। लिटि यङि च परतः प्यायः पीत्ययमादेशो भवति। आपिप्ये, आपिप्याते, आपिप्यिरे। परत्वात् पीभावे कृते <<पुनः प्रसङ्गविज्ञानाद्०>> द्विर्वचनम्, <<एरनेकाचो०>> ६.४.८२ इति यणादेशः। यङि — आपेपीयते, आपेपीयेते, आपेपीयन्ते॥

Siddhanta Kaumudi

Up

लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात्पीशब्दस्यद्वित्वम् । एरनेकाचः -<{SK272}> इति यण् । पिप्ये । पिप्याते । पिप्यरे ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<लिड्यङोश्च>> - लिङ्यङोश्च । लिट् च यङ् चेति द्वन्द्वात्सप्तमी ।प्यायपी॑ति सूत्रमनुवर्तते । तदाह — लिटि यङि चेति । ननु प्यायेर्लिटि दित्वं बाधित्वा परत्वात्पीभावे द्वित्वेएरनेकाच॑इति यणि 'पिप्ये' इति रूपमिष्यते । तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति,विप्रतिषेधे यद्वाधितं तद्बाधितमेवे॑ति न्यायादित आह — पुनः प्रसङ्गेति ।पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति परिभाषा । विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः ।

Padamanjari

Up

विभाषेति निवृतमिति। उतरसूत्रे पुनर्विबाषाग्रहणात्। प्यायः पीत्येतच्चकारेणानुकृष्यते इति। असति चकारे प्रकरणिनः सम्प्रसारणस्यैवानुवृत्तिः स्याद्, यथोतरत्र। परत्वात्पीभावे कृते इति। ननु द्वयोः सावकाशयोः परत्वं भवति, अनवकाशश्च पीभावः, एवं तर्हि परत्वादुत्कृष्टत्वादनवकाशत्वादिति भावः। पुनः प्रसङ्गविज्ञानादिति। अत्रापि'विप्रतिषेधे परम्' इत्यत्र यदुक्तं न तद्विवक्षितम्, किं तर्हि? द्विर्वचनस्य पुनः प्रसङ्गोऽस्तीति कृत्वेत्यर्थः। यदि तर्ह्यनवकाशः पीभावो नाप्राप्ते द्विर्वचन आरभ्यमाणेन तेन द्विर्वचनस्य बाधः प्राप्नोति? नैष दोषः; परस्परसन्निधौ बाध्यबाधकबावः। इह तु सम्प्रसारणप्रकरणेन द्विर्वचनप्रकरणं विच्छिन्नम्। अत एव वक्ष्यते -ठ्दिग्यादेशेन द्वित्वबाधनमितष्यतेऽ इति॥