शृतं पाके

6-1-27 शृतं पाके सम्प्रसारणं निष्ठायाम् विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

विभाषेत्यनुवर्तते। <<श्रा पाके>> इत्येतस्य धातोर्ण्यन्तस्याण्यन्तस्य च पाकेऽभिधेये क्तप्रत्यये परतः शृभावो निपात्यते विभाषा। शृतं क्षीरम्। शृतं हविः। व्यवस्थितविभाषा चेयम्, तेन क्षीरहविषोर्नित्यं शृभावो भवति। अन्यत्र न भवति — श्राणा यवागूः, श्रपिता यवागूरिति। यदापि बाह्ये प्रयोजके द्वितीयो णिजुत्पद्यते तदापि नेष्यते — श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति। श्रातिरयमकर्मकः कर्मकर्तृविषयस्य पचेरर्थे वर्तते, स ण्यन्तोऽपि प्राकृतं पच्यर्थमाह। तदत्र द्वयोरपि शृतमितीष्यते। शृतं क्षीरं स्वयमेव। शृतं क्षीरं देवदत्तेन। पाकग्रहणं निपातनविषयप्रदर्शनार्थम्, तेन क्षीरहविषोरेव॥

Siddhanta Kaumudi

Up

श्रातिश्रपयत्योः क्ते शृभावो निपात्यते । क्षीरहविषोः पाके । शृतं क्षीरम् । स्वयमेव विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविर्भ्यामन्यत्तु श्राणं श्रपितं वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शृतं पाके>> - शृतं पाके । 'श्रा पाके' घटादिः । तस्माद्धेतुमण्णिचि पुकि मित्त्वाद्ध्रस्वे श्रपि इति भवतीति स्थितिः । श्रातिश्रपयत्योरिति । अण्यन्तस्य, ण्यन्तस्य च श्राधोतरित्यर्थः । क्षीरहविषोरिति । एतच्च वार्तिकाल्लभ्यते । अण्यन्तं व्याचष्टे -स्वयमेव विक्लिन्नमिति । श्राधातुरण्यन्तः पाके वर्तते । पाकश्चाऽत्र विक्लित्तिरेव विवक्षिता, न तु तदनुकूलव्यापारोऽपि । तथा च श्राधातोर्विक्लपित्तावकर्मकत्वात्गत्यर्थाऽकर्मके॑ति कर्तरि क्तः । तथा च क्षीरं विक्लित्त्याश्रय इत फलितम् । ततो णिचि विक्लित्त्यनुकूलव्यापारार्थकपचिना समानार्थकात् 'श्रपी' त्यस्मात्कर्मणि क्तप्रत्यये फलितमाह - पक्वमिति । एतच्च भाष्यकैयटयोः स्पष्टम् ।क्षीराज्यहविषां शृत॑मित्यमरस्य तु प्रमाद एव,क्षीरहविषो॑रिति वार्तिकविरोधात् ।

Padamanjari

Up

श्रा पाक इत्यस्य धातोरिति।'श्रा पाके' इत्यदादौ पठ।ल्ते,'श्रौ पाके' इति चुरादौ, घटादिष्वपि मित्वार्थः'श्रा पाके' इति पठ।ल्ते, तत्रेह सर्वेषां ग्रहणम्। श्रायतेरपि कृतात्वस्यैतद्रपं भवति, निपातनसामर्थ्याच्च लक्षणप्रतिपदक्तपरिभाषा नाश्रीयते। ण्यन्तस्य चाण्यन्तस्य चेति। तथा चोक्तम् -'श्राश्रप्योः शृभावो निपात्यते' इति। अत एव प्रकृतं सम्प्रसारणमेव न विहतम्, श्रपेरपि शृतमित्येव यथा स्यादिति। यदि विभाषेत्यतदत्रावर्तते, क्षीरहविषोरन्यत्र च विकल्पः प्राप्नोति सर्वत्र, तत्राह - व्यवस्थितविभाषा चेयमिति। यदा त्वित्यादि। प्रयोजकव्यापारः प्रेषणादिलक्षण प्रयोजकशब्देनोक्तः, तस्य च बाह्यत्वं बहिर्भूतणिज्व्याप्यत्वात्। तदापि नेष्यत इति। तथा चोक्तम् - श्रपेः शृतमन्यत्र हेतोरिति। श्रपितं क्षीरं देवदतेन। प्रयोजकव्यापारेणाप्यमानस्यापि प्रयोज्यस्य कर्मसंज्ञा न भवति,'गतिबुद्धिप्रत्यवसान' इति नियमात्। कथं पुनर्ण्यन्तस्य निपातनं लभ्यते, यावता पाक इत्युच्यते, ण्यन्तेन च पाचनाभिधीयते, न पाकः; अथ पाचनायामपि गुणभूतः पाकः प्रतीयते, तदाश्रयं निपातनं स्यचात्? यद्येवम्, द्वितीयेऽपि णिचि प्रसङ्गः। न हि तत्र पाको गुणभूतो न गम्यते। अथं तत्र गुणभूतत्वादेव प्रधानभूते पाके चरितार्थं निपातनं न भविष्यती त्युच्येत ? प्रथमेऽपि न स्याद्, वक्तव्यो वा विशेषः। तमाह-श्रातिरयमित्यादि। अथमभिप्रायः - द्विविधः पाकः - विक्लितिलक्षणः, विक्लेदनालक्षणश्च;, उभयत्रापि पचेः प्रयोगदर्शनात्, पच्यते ओदनः स्वयमेव, पचत्योदनं देवदत इति। श्रातिश्चायं यद्यपि'पाके' त्यिविशेषेण पठ।ल्ते, तथापि कर्मकर्तृविषयस्य पचेरर्थेवर्तेते। स ण्यन्तोऽपि प्राकृतचं प्रकृतौ भवं णिज्रहितपचिवाच्यं पच्यर्थमाह। सोऽपि पाक एव, न पाचयतेरर्थः, यथा - सिद्धयत्योदनः, साधयत्योदनमिति। तत्र यदा श्रातेः क्त ॥त्पद्यते, तदाऽकर्मकत्वात्कर्तरि भवति - शृतं क्षीरमिति, श्रपेस्तु कर्मणै - शृतं क्षीरं देवदतेन। द्वितीये तु णिचि पाचयितृव्यापारः पाचनालक्षणः प्राधान्येनाभिधीयते, न तु पाक इति निपातनाभाव इति।'श्रपेः शृत्वमन्यत्र हेतोः' इति वार्तिके'श्राश्रप्योः शृभावो निपात्यते' इति पूर्वमुक्तत्वादाद्यप्रकृतलक्षणप्रयोजकव्यापाराङ्गीकरणसामर्थ्यात्पाचयितृलक्षणप्रयोजकव्यापारनिषेधो विज्ञेयः ॥ पाकोऽयं पाक्यपक्त्योरद्विविध इह स विक्लितिविक्लेदनात्मा श्रातिर्वक्त्येकमन्यं श्रपयतिरुभयत्रौभयोक्तेः शृभावः। स्वे स्वे वाच्ये श्रपेस्तु प्रसजति सति वा पाचने न द्वितीये नित्यं क्षीरे शृभावो हविषि च न तु पाक्येषु चार्थान्तरेषु ॥