विभाषाऽभ्यवपूर्वस्य

6-1-26 विभाषा अभ्यवपूर्वस्य सम्प्रसारणं निष्ठायाम् श्यः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

श्य इति वर्तते। अभि इव इत्येवंपूर्वस्य श्यायतेर्निष्ठायां विभाषा संप्रसारणं भवति। अभिशीनम्, अभिश्यानम्। अवशीनम्, अवश्यानम्। द्रवमूर्तिस्पर्शविवक्षायामपि विकल्पो भवति। अभिशीनं घृतम्, अभिश्यानं घृतम्। अवशीनं मेदः, अवश्यानं मेदः। अभिशीतो वायुः, अभिश्यानः। अवशीतमुदकम्, अवश्यानमुदकम्। सेयमुभयत्रविभाषा द्रष्टव्या। पूर्वग्रहणस्य च प्रयोजनं समभिश्यानं समवश्यानमित्यत्र मा भूदिति केचिद् व्याचक्षते, न किलायमभ्यवपूर्वः समुदाय इति। योऽत्राभ्यवपूर्वः समुदायस्तदाश्रयो विकल्पः कस्माद् न भवति ? तस्मादत्र भवितव्यमेव । यदि तु नेष्यते ततो यत्नान्तरमास्थेयम् अस्माद् विभाषाविज्ञानाद् व्यवस्थेयम्। पूर्वग्रहणस्य चान्यत् प्रयोजनं वक्तव्यम्॥

Siddhanta Kaumudi

Up

श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विभाषाऽभ्यवपूर्वस्य>> - विभाषा । 'श्यैङ' इति शेषः । संप्रसारणं वा स्यादिति । शेषपूरणमिदम् । द्रवमूर्तिस्पर्शयोर्नित्यं संप्रसारणे प्राप्ते, ततोऽन्यत्राऽप्राप्ते विभाषेयम् । अभिश्यानं घृतमिति । अत्र द्रवमूर्तौ संप्रसारणविकल्पः । अवश्यानः अवशीनो वृश्चिक इति । अत्र द्रवमूर्तिस्पर्शाऽभावेऽपि संप्रसारणविकल्पः । समवश्यान इत्यत्रापि संप्रसारणविकल्पमाशङ्क्याऽऽह - व्यवस्थितेति ।

Padamanjari

Up