6-1-23 स्त्यः प्रपूर्वस्य सम्प्रसारणं निष्ठायाम्
निष्ठायामिति वर्तते संप्रसारणमिति च । स्फी इत्येतद् न स्वर्यते। <<स्त्यै ष्ट्यै शब्दसंघातयोः>> द्वयोरप्येतयोर्धात्वोः स्त्यारूपमापन्नयोः सामान्येन ग्रहणम्। स्त्या इत्येतस्य प्रपूर्वस्य धातोर्निष्ठायां परतः संप्रसारणं भवति। प्रस्तीतः। प्रस्तीतवान्। संप्रसारणे कृते यण्वत्त्वं विहतमिति निष्ठानत्वं न भवति। ‘प्रस्त्योऽन्यतरस्याम् ८.२.५४ इति तु पक्षे मकारः क्रियते। प्रस्तीमः। प्रस्तीमवान्। प्रपूर्वस्येति किम् ? संस्त्यानः। संस्त्यानवान्। प्रस्त्य इत्येव सिद्धे पूर्वग्रहणमिहापि यथा स्यात् — प्रसंस्तीतः। प्रसंस्तीतवान्। तत्कथम् ? प्रपूर्वस्येति षष्ठ्यर्थे बहुव्रीहिः। प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वः, तदवयवस्य स्त्य इति व्यधिकरणे षष्ठ्यौ। तत्र प्रसंस्तीत इत्यत्रापि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति॥
प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥
<<स्त्यः प्रपूर्वस्य>> - स्त्यः प्रपूर्वस्य ।स्त्यै॑इत्यस्य कृताऽऽत्वस्य 'स्त्य' इति षष्ठन्तम् ।ष्यङः संप्रसारण॑मित्यतः संप्रसारणमिति,स्फाय स्फी॑त्यतो निष्ठायामिति चानुवर्तते । तदाह — प्रादित्यादि । संप्रसारणे पूर्वरूपे 'हलः' इति दीर्घे प्रस्ती- त इति स्थिते —
द्वयोरप्येतयोरिति। द्वयोरपि स्यारुपस्य लाक्षणिकत्वात्। सम्प्रसारणे कृते इति। तस्यासिद्धत्वात्प्रागेव सम्प्रसारणम् । प्रस्त्य इत्येव सिद्ध इति। यथा'प्रस्त्यो' न्यतरस्याम्ऽ इत्यत्र। न चैवमुच्यमाने प्रशब्दस्यापि यो रेफस्तस्यापि प्रसङ्गः; धातोरित्यधिकारात्। प्रसंस्तीत इति।'प्रस्त्यो' न्यतरस्याम्ऽ इति मत्वमत्र न भवत्येव। तत्कथमिति। कथमयमर्थः शब्देनाभिहितो भवतीति प्रश्नः। षठ।ल्र्थे बहुव्रीहिरिति। पूर्वशब्दस्यावयववाचित्वात्, यथा -पूर्वं कायस्येति। व्यधिकरणे षष्ट।लविति। प्रपूर्वस्येति स्त्याशब्दापेक्षयावयवष्ष्ठी, स्त्य इत्येषापि यणवयवापेक्ष्या षष्ठी। यथा पुनरयमर्थःक प्रकृतोपयोगी तथा दर्शयति -तत्रेति ॥